________________
३१५
श्रीदशवैकालिकसूत्रम् खण्डिका इव दार्षद्यो-ऽभूवन रत्नानि चूर्णसात् । गोशीर्षचन्दनमयो, भस्मसात् काष्ठसञ्चयः ।।३३१७ ।। निरन्तराभिर्ध्वालाभिः, प्रज्वलन् ज्वलनस्तदा । शोभते स्म सुरानीत-काञ्चनाचलखण्डवत् ।।३३१८ ।। भ्रातस्त्रातुमहं नेशो, दह्यमानां पुरीमिमाम् । तथा न द्रष्टुमप्यार्य !, तद्यामोऽन्यत्र कुत्रचित् ।।३३१९ ।।
बभाषे बलदेवोऽपि, गम्यते पाण्डवान्तिके । ऊचे कृष्णोऽपराद्धास्ते, तत्पार्चे गच्छतां त्रपा ।।३३२० ।। बलभद्रोऽभ्यधाद् भूयो-ऽप्यपकारः सकृत् कृतः । उपकाराः पुनः सन्ति, लक्षशो विहितास्त्वया ।।३३२१।। अलं विमृश्य तद् भ्रात-गम्यतां तत्र सम्प्रति । भवन्तमतिथिं प्राप्य, को न देवमिवार्चति ? ।।३३२२ ।। ततः कृष्णः सरामोऽपि, तां पाण्डुमथुरां प्रति । पान्थवत् पादचारेण, चलति स्म महाभुजः ।।३३२३।।
ज्वलन्त्यामत्र पुर्यां च, रामसूः कुब्जवारकः । तदाधिरुह्य सौधाग्र-मुच्चैः स्वरमदोऽवदत् ।।३३२४ ।। स्वामी चरमदेहं मा-माख्यात् तत्किमभूदिदम् ? । वदन्तमिति तं निन्यु-स्तत्क्षणात् जृम्भकामराः ।।३३२५ ।। श्रीनेमिः पल्लवे देशे, तदानीं विहरन्नभूत् । मुक्तः स तत्र तं स्वामी, स्वयं प्रावाजयत् ततः ।।३३२६ ।। षष्टिद्वासप्तती दग्धा, यदूनां कुलकोटयः । षण्मास्यैवं पुरी प्लुष्टा, प्लाविताथाम्बुराशिना ।।३३२७ ।। इतो हरिः सरामो यान्, हस्तिकल्पपुरं गतः । क्षुधा मां बाधते बन्धो !, शंसति स्मेति शीरिणे ।।३३२८ ।। बलदेवोऽवदद् भोज्य-मानेतुं भवतः कृते ।
यास्याम्यहं पुरस्यान्त-भवरत्र सचेतनः ।।३३२९ ।। १. पाषाणा १० टि० ।। * ०ता १.३.६, ०ते ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org