________________
३१४ . श्रीतिलकाचार्यविरचितटीकायुतम् .
वचांसीदृशि पौराणां, तो समाकर्ण्य दध्यतुः । पुरीदाहादितः पूर्वं, कथमावां मृतौ न हि ।।३३०४।। अथ धीरत्वमालम्ब्य, रामो नेतुं पितॄन् बहिः । अभाङ्क्षीत् पार्णिघातेन, कपाटौ घटखण्डवत् ।।३३०५ ।। उत्पाटयितुमारेभे, रथः कृष्णेन तत्क्षणात् । परं नाङ्गुलमप्येष, चचालाऽचलशृङ्गवत् ।।३३०६।। ... उत्पाटिता कोटिशिला, वामदोष्णा मया पुरा । इदानीं रथमात्रस्या-प्यलं नोत्पाटनेऽस्मि हा ! ।।३३०७ ।। अथ द्वीपायनोऽवादीद्, व्यामोहः कोऽयमत्र वः ? । कथितं वां मयाग्रेऽपि, निर्गमी न युवां विना ।।३३०८ ।।
अथ तो पितरोऽवोचन्, वत्सौ ! यातं युवां बहिः । युवाभ्यां चेत् परं वंशः, प्ररोहति कदाचन ।।३३०९।। कृतं युवाभ्यां कर्तव्यं, तोलितं सत्त्वमात्मनः । . परं भावी भवत्येव, दैवेनापि न टाल्यते ।।३३१०।। पूर्वं नानुसृतोऽस्माभिः, श्रीनेमिर्यज्जगत्प्रभुः । . उपस्थितं तदेतर्हि, तस्येदं कर्मणः फलम् ।।३३११ ।। धिग् धिग् नौ जीवितं तातौ !, यंद्युष्मान् जीवतः सतः । मुक्त्वा प्रदीपने यावे, इत्युचाते बलाच्युतौ ।।३३१२ ।। वसुदेवो देवकी च, रोहिणी चाथ ते त्रयः । मनसा सन्निधौ नेमे-श्चक्रिरेऽनशनं तदा ।।३३१३।। नास्माकीनं किमप्यत्र, सत्काः कस्यापि नो वयम् । इतः श्रीनेमिनाख्यात, आत्मीयो धर्म एव नः ।।३३१४ ।। इत्येवं ध्यायतां तेषां, मूर्ध्नि वहिं ववर्ष सः । मृत्वा स्वर्गं गतास्तेऽथ, रामकृष्णौ निरीयतुः ।।३३१५ ।। बहिः परिसरे पुर्या, जीर्णोद्याने स्थितावुभौ ।
अस्तोकशोकसन्तापौ, पुरीदाहमपश्यताम् ।।३३१६ ।। * ते १ ।। . ०वो यातोः किं वक्ष्यतः पदौ २.६-१०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org