________________
श्रीदशवैकालिकसूत्रम्
३१३ पुरीयं दह्यमानाट्ट-गृहाद्यङ्गारपूरिता । रुदत्यपि जनाक्रान्दै-हसन्तीवावभासते ।।३२९२ ।। द्वारवत्यां तदा लब्धा-वसरो नटवच्छिखी । जगौ जनाक्रन्दरवै-ननाचिःकरैस्ततैः ।।३२९३।। किल तस्याः पुरो दाहे, ज्वालयेन्दुः कलङ्कितः । लाञ्छनच्छद्मना सेयं, श्यामताद्यापि विद्यते ।।३२९४ ।। पुरीदाहानलज्वाला-प्लुष्टाशेषतनोरदः । किलोद्धतं शिरो राहो-विध्याताङ्गारसोदरम् ।।३२९५ ।। ज्वलति ज्वलने तत्र, पौरास्ते स्तम्भिता इव । यो हि यत्र स तत्रैव, बालो वृद्धो युवा स्थितः ।।३२९६।।
रामकृष्णौ वसुदेवं, देवकी रोहिणी रथे । आरोपयाम्बभूवाते, तानाक्रष्टुं प्रदीपनात् ।।३२९७ ।। नार्वन्तो न वृषा नेभाः शक्तास्तद्रथकर्षणे । बलीयांसोऽपि ते तस्थु-रालेख्य लिखिता इव ।।३२९८ ।। रामकृष्णौ ततो लग्नौ, क्रष्टुं तं स्यन्दनं स्वयम् । भग्नमक्षयुगं तस्य, स्थपुटाध्वनि कृष्टवत् ।।३२९९ । । पितृभक्तयाथ तौ मूर्ध्नि, तं निधाय रथं स्वयम् । निन्यतुर्गोपुरं यावत्, तावद् द्वारं सुरः प्यधात् ।।३३०० ।। हा कृष्ण ! कृष्ण ! हा राम !, रक्ष रक्षेति वादिनाम् । नागराणां गिरो दीनाः, शृण्वानौ तिष्ठतः क्षणम् ।।३३०१।। कंसध्वंसे जरासन्ध-वधेऽभूत् तव यद्बलम् । विश्ववत्सल ! हा कृष्ण !, तद्बलं कुत्र ते गतम् ? ।।३३०२।। प्रियङ्करा पुरी तेऽभूत्, सकलापि कलालया ।
दह्यमानामनेनैव-मुपेन्द्र ! किमुपेक्षसे ? ।।३३०३।। १. ज्योतिरूपहस्तैः ।। २. विस्तृतैः ।। * भस्मीभूतो गतः कायः, पुरीदाहेऽनलार्चिषा । अभवन् मस्तकं रा० २.६-१० ।। ॐ हा कृष्ण विश्ववत्सल ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org