________________
३१२ . श्रीतिलकाचार्यविरचितटीकायुतम्
अङ्गारवृष्टिस्तत्राभूत्, सच्छिद्राद्रविमण्डलात् । द्वीपायनासुरात्तां सा, कथयामास भाविनीम् ।।३२८० ।। सञ्चरन्ति स्म पुर्यान्तः, श्वापदाः शशकादयः । स च द्वीपायनो भूत-वैतालाद्यैर्वृतोऽभ्रमत् ।।३२८१ ।। स्वप्ने पुरीजनो रक्त-मालं रक्ताम्बरावृतम् । दक्षिणाशामुखं यान्त-मुष्ट्रारुढं स्वमैक्षत ।।३२८२।। वातं विकृत्य संवर्तं, तेन काष्ठतृणादिकम् । आकृष्य नश्यतो नॅश्च, पुरीमध्ये सुरोऽक्षिपत् ।।३२८३।। कणान् सङ्कोच्य सङ्कोच्य, विष्वग् निपततो बहिः । खण्डनाय क्षिपत्यन्त-र्वनितावदुदूखले ।।३२८४ ।। आसन्नेभ्यो वनेभ्योऽथ, वातेनोन्मूल्य शाखिनः । समग्रामपि तत्काष्ठे-नगरी तामपूरयत् ।।३२८५।। शीरादीनि च रत्नानि, प्रणेशुर्नीलवाससः । . शङ्खचक्रगदादीनि, पुनश्चाणूरवैरिणः ।।३२८६।। षष्टिं बाह्या कुलकोटी-र्दासप्ततिं च मध्यगाः । . कृत्वैकत्र पुरीमध्ये, सुरः सोऽदीपि पावकम् ।।३२८५ ।। द्वीपायनतपःपुण्य-कर्पूरस्य ज्वलिष्यतः । स्फूर्जभ्रूमध्वजव्याजाद्, वीक्षते कल्मषोञ्चयः ।।३२८८।। बन्दीकृतः पुरा राज्ञां, प्रतापः शाङ्गिणात्र यः । छुटितः सोऽधुना मन्ये, दन्दहीति पुरीं रुषा ।।३२८९।। पुर्याः स्वर्णं द्रवीभूतं, सुरेण ज्वालिताग्निना । तापाधिक्यात् किलोद्भूत-मूर्ध्वज्वालापदेशतः ।।३२९० ।। किलातिजलसम्पर्का-ज्जातजाड्योऽत्र वाडवः ।
कम्पमानो भ्रमज्ज्वाला-च्छलादब्धेर्बहिः स्थितः ।।३२९१ ।। * ०क्ष० १.३.५ ।। १. मनुष्यान् १० टि० ।। २. धान्यानि पक्षे अङ्गारान् ।। - सप्रयत्नव (र्व १) निता १.३-५ ।। ० ०णे० १ ।। * मुनेस्तस्यां हसश्च यः २.६-१० अयं मूलपाठः १० टिप्पण्यामपि ।।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org