________________
३१० श्रीतिलकाचार्यविरचितटीकायुतम्
तदनुसलिलं, शङ्ख कृत्वा, करोति पुरः प्रभोः , स्फटिकशकल-ज्योत्स्नाच्छायं, सुधारससोदरम् । कलिमलमषी-कालुष्येना-विलीकृतमान्तरं, किल विमलतां, नेतुं बद्धा-भिसन्धिरनेन सः ।।३२५९।। हरिणी समयोचितफलढौकन-मग्रेजिनराजमथ सकः कुरुते । दृष्टमपि ज्ञापयते, यत्किल सफलत्वमर्चायाः ।।३२६० ।। आर्या प्रदीप्यते तेन ततः प्रदीपः, प्रभोः पुरस्तात् प्रविराजते यः । एष्यज्जिनार्चाफलभूतसञ्चित्-प्ररोहवनिर्दलयंस्तमांसि ।।३२६१ ।। उपेन्द्रवज्रा ढोकयति जिनस्याग्रे, सद्यः पक्वान्नजातमनवद्यम् । सिद्धिवधूपाणिग्रह-महाय यत्किल कृतं प्रगुणम् ।।३२६२।। आर्या मुद्राधिकारपदसम्पदमादधानो, विन्यस्तनेत्रयुगल: स तदीयमूत्तौ । सद्वर्णसुन्दरमंथार्थविशेषपुष्टो, भर्तुः करोति सुविशिष्टमनाः प्रशंसाम् ।।३२६३।। वसन्ततिलका अथाभिवन्द्यांह्रियुगं गुरूणां, स द्वादशावर्तकवन्दनेन । प्रत्याख्यया चाविरतिं निवर्त्य, शृणोति सद्धर्मकथां सुधर्मा ।।३२६४ ।। उपजातिः उत्सर्पद्भिः समन्तात्, घनततशुषिरा-नद्धवादिननादैजेतुं मोहादिशत्रू-निव समसमया-स्फालितैर्यतूर्यः ।। चैत्ये स्याद्वादिनोऽपि, प्रतिदिनमतुली-भूय यंत्र त्रिसन्ध्यं, शब्दाद्वैतं समस्ते, जगति किल समुल्लास्यते तन्मतस्थैः ।।३२६५ ।। स्रग्धरा दृष्टिमुष्टिलयभावरसाढ्यं, यन्नटन्ति जिनवेष्मनि नट्यः । तन्मिषानवरसा इव मूर्ताः, ख्यापयन्त्यनुदिनं जिनभक्तिम् ।।३२६६।। स्वागता त्रिसन्ध्यं गाथकोद्गीत-गीतिव्याजाजिनालये ।
कुर्वन्ति श्रीजिनोपास्ति, श्रीरागाद्या इवाङ्गिनः ।।३२६७ ।। १. ज्ञानस्याङ्कुरवत् १० टि० ।। * ०लो जिनराज० २.६-१० ।। मथार्ण० ४, ०गतार्थ० ६-१० ।। २. महार्थ ।। 0 सुधर्माम् २, सधर्मा ५, सुधीनाम् ६-९, सुधीमा १० ।। ३. ततं वीणाप्रभृतिकं, तालप्रभृतिकं घनं, वंशादिकं शुषिरमानद्धं मुरजादिकम् [अभिधान० २८६-२८७] २ टि० ।। * ०० ८ ।। है नौ स्थातुवादः १.३-५ ।। + गत्वा ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org