________________
श्रीदशवकालिकसूत्रम्
३०९ धारालैः पतयालुभिः परिमल-प्राग्भारसारैर्जलैस्तीर्थेशप्रतिमां जनः स्नपयति, स्वं च प्रमोदाश्रुभिः । यान्त्युद्दामखलत्कृतध्वनिशतैः, स्नात्रक्रियाकारिणां, प्रत्युज्जागरयन्ति सङ्गमयितुं, कल्याणलक्ष्मीं किल ३२५३।। शार्दूलविक्रीडितम् रोदःकुर्ति-म्भरिपरिमला-कृष्टभृङ्गीकुटम्बं, न्यस्यत्यङ्गे, त्रिभुवनविभो-श्चन्दनस्यानुलेपम् । सान्द्रज्योतिः-कवलिततमः-स्तोमसोमप्रकाशं, लब्धोल्लासं, मन इव निजं, रूपगध्यानहेतोः ।।३२५४।। भन्दाक्रान्ता अथ रचयति पूजां, पूजनीयस्य पुष्पैनिजपरिमलपूर-प्लाविताशेषलोकैः ।। विभुवदनमृगाङ्को-पान्तभागानुगामिप्रकटघटिततारा-चक्रवालाभिशङ्कः ।।३२५५ ।। मालिनी चञ्चञ्चन्द्रमरीचिवीचिनिचय-च्छायैस्ततस्तन्दुलैमूर्त्तः पुण्यकणैरिवाद्भुततमै-स्तत्कालपूजोद्भवैः । अष्टौ माङ्गलिकानि विष्टपपते-रग्रे विधत्तेतरामष्टानां प्रलयं चिकारयिषुर्वत्, कर्माख्यविद्वेषिणाम् ।।३२५६।। शार्दूल० धूपोत्क्षेपमथादधाति भगव-द्विम्बस्य भूत्वा पुरः, प्रोत्सर्पद्गुरुधूमसन्ततिमहा-विस्ताररुद्धाम्बरम् । कान्तोपान्तवनान्तशाखिशिखर-प्रान्तस्थमालोकयद्, ये पाथोधरशङ्कया शिखिकुलं, केकाकुलं नृत्यति ।।३२५७ ।। शार्दूलविक्रीडितम् प्रोद्यद्विष्टपनासिककन्धममहा-सौरभ्यलीलागृहैसिर्वासितभूतलैर्भगवतः, पूजां विधत्ते ततः । या सौभाग्यसुधातरङ्गतटिनी, संसारिणां दुर्लभा,
सिद्धिर्द्रष्टुमपीह तामपि वशी-कर्तुं - चूर्णन्ति ये ।।३२५८ ।। शार्दूलविक्रीडितम् .०लीकृ० १.१० ।। . ०क्ष० १.३ ।। - जिन० ६-९, जनः १० ।। - स्या० ६-१० ।। २ ०य० १० ।। • येनाम्भो० २.६-९ ।। . ०वि० १ ।। ६ च ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org