SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् कृष्णेनेत्युच्यमानोऽपि न शाम्यति त्रिदण्डिकः । तिम्यमानः शणगुण-ग्रन्थिवद् याति गाढताम् ।।३२३० ।। शाम्बादिभिः सुतैः कुट्य-मानः कुट्टिमभूरिव । सलोकद्वारिकादाहे, निदानं बद्धवानहम् ।।३२३१।। युवाभ्यामेव जीवद्भ्यां निर्गन्तव्यमितो बहिः । ज्वालितायां मया पुर्या-मस्यां नान्यस्य निर्गमः ।। ३२३२ । । राजयक्ष्मेव रोगोऽयं, क्रोधोऽमुष्यानिवर्त्तकः । नेष्यत्ययं क्षयं सर्वं, स्वं पुनर्नरकावनिम् ।।३२३३।। रामोऽवक् कृष्ण ! मुञ्श्चैनं, जिनोक्तं स्यात् किमन्यथा ? | सयदुद्वारिकादाह-मितः श्रीनेमिरभ्यधात् ।।३२३४।। ततः कृष्णमुखः कृष्णो, रामश्च स्वपुरीं गतौ । असिद्धसाध्यः को न स्याद् ?, विच्छायवदनोऽथवा ।। ३२३५ ।। द्वीपायनन्रिदानं तत्, श्रुत्वा सर्वे पुरीजनाः । मुमूर्च्छस्तीक्ष्णभल्लाग्र-प्रहता इव वक्षसि ।।३२३६ ।। कृष्णादेशात् ततस्तत्र, धर्मकर्मरता जनाः । द्वीपायनं विनिर्जेतुमिव सर्वे धृतोद्यमाः ।।३२३७ ।। तदा श्रीनेमिरागम्य, रैवते समवासरत् । भाविप्रदीपनाल्लोक-माक्रष्टुं द्वारिकागतम् ।।३२३८।। तत्र कृष्णश्च रामश्च, सर्वोऽपि च पुरीजनः । नत्वाश्रौषीत् प्रभोर्व्याख्यां भवमोहव्यपोहिनीम् ।। ३२३९ ।। , प्रद्युम्नशाम्बनिषधा, उल्मकः सारणादयः । मोहं विमुच्य राज्यादेः, कुमाराः शतशोऽपि हि । । ३२४० ।। रुक्मिणीजाम्बवत्याद्या, बह्व्योऽन्याश्च यदुस्त्रियः । प्रवव्रजुः प्रभोः पार्श्वे, भवभ्रमणभीरवः ।। ३२४१ ।। युग्मम् द्वीपायनो द्वारवतीं, धक्ष्यत्येष कदा प्रभो ! । इति कृष्णानुयुक्तः स्वा-म्यूचे द्वादशवत्सरे ।। ३२४२ ।। १. क्लिनः १० टि० ।। मुष्यां पुर्यां नान्यस्य निर्गमः ६-१० ।। ०मिति ६-८, मैति ९ ।। Jain Education International For Personal & Private Use Only ३०७ www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy