________________
३०६ . श्रीतिलकाचार्यविरचितटीकायुतम् .
सुरापूर्णानि दृष्ट्वाथ, शिलाकुण्डानि दध्यिवान् । पातालानिर्गतानीव, सुधाकुण्डान्यमूनि किम् ? ।।३२१७ ।। तामानाय्य निजैः पुम्भिः, शाम्बः सच्छायकानने । पानगोष्टी विधेत्ते स्म, मित्रभ्रात्रादिभिः सह ।।३२१८ ।। चिरालब्धां च जीर्णां च, पुष्पादिद्रव्यसंस्कृताम् । तामाकण्ठं पिबन्तस्ते, ततृपुर्न सुधामिव ।।३२१९।।। द्वीपायनर्षिानस्थः, पूर्वं गिरिदरीस्थितः ।। शाम्बाद्यैर्मद्यपानान्धैः, क्रीडद्भिस्तैरदृश्यत ।।३२२० ।। धक्ष्यत्यस्मत्पुरीमेष, कुलक्षयकरश्च नः । विचिन्त्येति प्रकोपात्तैः, पिट्टितः कुट्टितश्च स : ।।३२२१ ।। घातैरोखेट्य कोपाग्निं, स्वपुरीदाहबीजवत् । . क्षेत्रे महाऋषेरुत्वा, तेऽगुः कर्षकवद् गृहम् ।।३२२२।। मृतप्रायः कृतस्तैः स, रोषान् महाऋषिस्तदा । । पुर्दाहं यादवोच्छेदं, ययाचे स्वतपःफलम् ।।३२२३।।
ज्ञात्वा चरेभ्यस्तद्वृत्तं, दध्यौ चेतसि केशवः । अहो ! कुमारैर्दुदान्तैः, कृतान्तोऽयं खलीकृतः ।।३२२४ ।। ययौ कृष्णः सरामोऽपि, तत्र द्वीपायनं मुनिम् । अन्तकस्येव रक्ताक्षं, कोपरक्ताक्षमैक्षत ।।३२२५ ।। दिधक्षोत्रिपुरं रुद्र-स्येव रूपं भयङ्करम् । त्रिदण्डिनं सान्त्वयितुं, कृष्णस्तमुपचक्रमे ।।३२२६ ।। मुने ! किं त्वं न वेत्स्ये तत्, क्षमारूपं तपस्विनाम् । नापराधिषु यत्कोपः, क्षमाया निकषः स तु ।।३२२७ ।। तपः स्वर्णमिव ध्मात, मा हार्षीः फूत्कृतेन तत् । क्रोधोऽयं दुर्गतिं नेतुं, प्रतिभूस्तव निश्चितम् ।।३२२८ ।। मद्यपानान्धलैर्यत्ते-ऽपराद्धं मम पुत्रकैः ।
तत्क्षमस्व महाशक्ते ! क्षमा शक्तस्य शस्यते ।।३२२९।। *ति स्वां पु० ६-१० ।। १. खेटयित्वा ३ टि० ।। २. क्रूरः १० टि० ।। * कृपा० ६-१० ।। 0 ०तमहा० १. १० ।। * पु० १.४.६-९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org