________________
श्रीदशवकालिकसूत्रम्
३०५ द्वीपायनोऽप्यदः श्रुत्वा, जनश्रुत्या वचः प्रभोः । यदून् द्वारवतीं चापि, रक्षितुं वनवास्यभूत् ।।३२०४ ।। अथ स्वामिनमानम्य, हरिभरवतीमगात् । मद्यादनों भावीति, मद्यपानं न्यषेधयत् ।।३२०५ ।। कृष्णादेशादुपान्ताद्रौ, कदम्बवनमन्तरा । दरी कादम्बरी नाम्नी, शिलाकुण्डेषु तत्र च ।।३२०६।। सर्वे द्वारवतीलोका, मद्यानि प्राकृतान्यथ । क्षालकूपीजलमिव, क्षिप्त्वा कुम्भेषु तत्यजुः ।।३२०७।। सिद्धार्थनामा सोदो, राममेवं व्यजिज्ञपत् । स्वकुलक्षयमीदृक्षं, कल्पान्तस्येव सोदरम् ।।३२०८।। द्रष्टुं नाहं क्षमे भ्रातस् !, ततो विसृज मां यथा । गृह्णामि स्वामिपादान्ते, सर्वसंयममुत्तमम् ।।३२०९।। रामोऽभ्यधत्तो हे भ्रात-र्धन्यस्त्वं यद् व्रतार्थ्यसि । देवीभूतो व्रतेन त्वं, बोधये मां विपद्गतम् ।।३२१०।।
ओमित्युक्त्वा प्राव्राजीत्, सिद्धार्थः स्वामिसन्निधौ । षण्मासीं च तपस्तत्वा, स मुनिः स्वर्गमीयिवान् ।।३२११।।
इतश्च या शिलाकुण्डे-ष्वासीन्यस्ता पुरा सुरा । भूरिद्रुमसुमायेगात्, सातिस्वादुतमाऽभवत् ।।३२१२।। तदा च मासि वैशाखे, पुमान् शाम्बस्य कश्चन । भ्रमंस्तत्र गतस्तृष्णक्, दृष्ट्वा तां मदिरां पपौ ।।३२१३।। तदास्वादेन स प्रीतो, भृत्वाथैकां दृतिं तया । गत्वा शाम्बस्य सौधेऽसौ, ढौकने तामढौकयत् ।।३२१४ ।। शाम्बोऽपि मदिरामोदं, तमाघ्राय प्रमोदभाक् । पायं पायमुवाचास्याः, सुधातोऽप्यधिको रसः ।।३२१५ ।। शाम्बोऽप्राक्षीत् क्व लब्धेयं, तत्रस्थां सोऽभ्यधात् पुमान् ।
सानुगोऽगाद् द्वितीयेऽह्नि, शाम्बः कादम्बरीगुहाम् ।।३२१६ ।। * नेमि० ६-१०।।१. कुशम १ टि०, पुप्फ २ टि०, 'प्रसून कुसुमं सुमम्' इत्यभिधानचिन्तामणौ ११२४ ।।२. मदिरया ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org