________________
३०४
श्रीतिलकाचार्यविरचितटीकायुतम् अथान्यत्र विहत्यैत्य, भूयो रैवतकाचले । श्रीनेमिः समवासार्षीद्, देशनावारिसारणिः ।।३१९१।। कृष्णः पुत्रानुवाचैवं, प्रातर्नन्ताऽद्य यः प्रभुम् । तस्य दास्येऽहमर्वन्तं, चलन्तमिव पर्वतम् ।।३१९२ ।। तुरङ्गस्यैव लोभेन, पाश्चात्य प्रहरे निशः । अभव्यः पालको गत्वा, श्रीनेमि प्रणनाम स ।।३१९३।। शाम्बस्तु प्रातरुत्थाय, स्वस्थानास्थित एव हि । नमश्चकार श्रीनेमि, तदेकायनमानसः ।।३१९४ ।। प्रत्यूषे पालकेनाश्वं, याचितो विष्णुरूचिवान् । स्वाम्याख्यातस्य दास्येऽहं, प्राग्नन्तुर्नेतरस्य तु ।।३१९५ ।। गत्वा नत्वा प्रभुं विष्णुः, पृष्टवान् शिष्टवान् प्रभुः । द्रव्यतः पालकः शाम्बो, भावतः प्राग् ननाम माम् ।।३१९६।। किमेतदिति कृष्णेन, पृष्टः स्वाम्यवदत् पुनः ।
अभव्यपालकः पापः, शाम्बस्तद्भवसिद्धिकः ।।३१९७।। ततः प्रकुपितः कृष्णः, पालकं निरवासयत् । शाम्बं माण्डलिकं चक्रे, ददावश्वं यथेप्सितम् ।।३१९८ ।।
देशनान्तेऽन्यदा विष्णुः, प्रभुमेवं व्यजिज्ञपत् । . किं प्रभो ! द्वारिकाप्येषा, विनक्ष्यति कदाचन ।।३१९९।। अथावोचद् विभुः सौर्य-पुरासन्नाश्रमे पुरा । अभूत् परासरो भौतो, भेजे नीचकुला कनीम् ।।३२०० ।। अभूत् तदङ्गभूीपा-यनो ब्रह्मवती मुनिः । निवसन्नत्र शाम्बाद्यै-र्मदान्धैः स हनिष्यते ।।३२०१।। स मुनिर्धक्ष्यति क्रुद्धो, द्वारिकां यादवैः सह । भ्रातुर्जराकुमाराच, जरासूनोर्मृतिस्तव ।।३२०२।। । जराकुमारः श्रुत्वा तत्, मा भूवं बन्धुघात्यहम् ।
इत्यरण्येऽगमन्नत्वा, प्रभुं चापर्कलापभृत् ।।३२०३।। १. एकध्यानमनाः ।। २. व्याधः १० टि० ।। * वसन् वनेऽत्र० ६-९ ।। ३. तूण १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org