SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् एवं करिंति संबुद्धा, पंडिया पवियक्खणा । विणियट्टंति भोगेसु, जहा से पुरिसुत्तर्मं त्ति बेमि ।।११।। एवं कुर्वन्ति । सम्बुद्धाः - ज्ञानविषयस्वरूपाः । पण्डिताः - वान्तभोगासेवनदोषज्ञाः । प्रविचक्षणाः- अवद्यभीरवः । विनिवर्तन्ते भोगेभ्यः । यथा असौ पुरुषोत्तमः रथनेमिः। आह परः-कथमस्य पुरुषोत्तमत्वम् ?, यो हि प्रव्रजितोऽपि विषयानभिलषति। उच्यते-तथाभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्तु अभिलषतानुरूपं चेष्टत एव । इति ब्रवीमि - तीर्थकृद्गणधरोपदेशेन, न स्वमत्या । I राजीमत्या महासत्या, तदैवं बोधितो मुनिः । तन्नवार्जितकर्मेधः, पश्चातापग्निनादहत् ।। ३१८२ ।। अचिन्तयचं धिग् धिग्मां, निःसत्वं स्मरकिङ्करम् । प्रकर्षप्राप्तमस्यास्तु, सत्त्वं कीदृक् स्त्रियोऽपि हि ।।३१८३ ।। भोजराजाङ्गजामेवं, जगाद रथम्यपि । इतः प्रभृति मे साध्वि !, गुरुस्त्वमसि सर्वथा ।। ३१८४ ।। अगाधेऽत्र भवाम्भोधौ, दुर्ध्यानान्मज्जतः सतः । तवोपदेशैरक्लेशै-र्यानपात्रायितं मम ।। ३१८५ ।। राजीमती जगादैवं, त्वं सामान्योऽसि किं मुने ! । सहोदरोऽसि श्रीनेमेः, श्रीनेमेर्दीक्षितोऽसि च ।। ३१८६ ।। भवतः परिणामस्य, स्वयमेव वलिष्यतः । " निमित्तकारणं जाता, उपदेशा मुने ! मम ।। ३१८७ ।। अनिष्टवार्त्तया भद्रे ! त्वमसि क्लेशिता मया । मिथ्यादुःकृतमत्रार्थे, मदीयं भवतात् तव ।।३१८८।। अहं पुनरिदं पाप-स्थानमालोच्य दुःकृतम् । अधुना निरतीचारं, पालयिष्यामि संयमम् ।।३१८९ ।। इत्युक्त्वा सर्वमालोच्य, दुश्चरित्रं प्रभोः पुरः । ध्यानस्थो वत्सरस्यान्ते, कलयामास केवलम् ।।३१९० ।। ० मो. १० ।। तत्तथा० ६-१० ।। Jain Education International For Personal & Private Use Only ३०३ www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy