________________
३०१
श्रीदशवकालिकसूत्रम् तं विसृज्य नृपेणान्त-म॒न्मयः कारितः करी । राश्यः सर्वा नृपेणोक्ता, विवस्त्रास्तमलङ्घयन् ।।३१५७ ।। सा तु राज्ञी जगादैवं, हस्तिनोऽस्माद् बिभेम्यहम् । हताथोत्पलनालेन, राज्ञा सा मूर्च्छयापतत् ।।३१५८ ।। राजोचेऽथ न ते भीति-मत्तेभात् कृत्रिमात्तु भीः । नामूर्छ: सङ्कलाघातान्-मूर्छिता तूत्पलाहता ।।३१५९।। तत्पृष्ठे सङ्कलाघातः, प्रेक्षितः क्ष्माभृता ततः । अरे! पापाधमा ! सैषा, वध्या सारोहकद्विपा ।।३१६० ।। सोऽथानाय्य गजारोहो, राज्ञोचे पाप ! सम्प्रति । सराज्ञीको गजारूढ-स्त्वं शैलाग्रादितः पतः ।।३१६१ ।। स तथाद्रिं तदारुह्य, राजादेशाद् गजं दधौ । क्रमात् त्रीश्चरणान् व्योम्नि, विधाप्येकांहिणा स्थितम् ।।३१६२ ।। रक्षेभमिति राजोचे, लोकैर्दोषोऽस्य न प्रभो ! । लोकवाक्यात् ततो राज्ञा, स ऊचे रक्ष हस्तिनम् ।।३१६३।। सोऽभ्यघात् करिणं त्रास्ये, चेन्नौ यच्छसि जीवितम् । .दत्ते राज्ञाऽभये तेना-ङ्कुशेनाऽवालि कुञ्जरः ।।३१६४ ।। अथोत्तार्य गिरे राज्ञा, कृतौ तौ देशताडितौ ।।
गच्छन्तौ च क्वचिद् ग्रामे, शून्ये देवकुले स्थितौ ।।३१६५ ।। रात्रौ ग्रामेयकैस्तत्र, त्रासितः पोरिपन्थिकः । तदेव देवकुलकं, शरण्यं शरणं श्रितः ।।३१६६।। वेष्टयित्वा तदारक्षा-स्तस्थुः श्वोऽसौ ग्रहीष्यते । स्पर्शाञ्चौरस्य सा तत्र, रक्ता चौरेऽभ्यधादिदम् ।।३१६७ ।। भव त्वं मे पतिः सोऽपि, मेनेऽथारक्षकैः प्रगे । औरोहोऽक्षेपि शूलायां, सा चौरेण समं गता ।।३१६८।। मार्गे दृष्ट्वा नदीं चौर-स्तामूचे देवि ! तेऽस्ति यत् ।
तदर्पयादौ येनेदं, सर्वमत्तारयाम्यहम् ।।३१६९।। १. मृन्मयकरिणम् ।। २. चौरः १० टि० ।। ३. हस्त्यारोहः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org