________________
३००
श्रीतिलकाचार्यविरचितटीकायुतम् तत्र स प्रत्ययो यक्ष-स्तत्पदोरन्तरे व्रजन् । ध्रियते दोषवांस्तेन, निर्दोषो याति तत्क्षणात् ।।३१४५।।
सा स्नाता स्वजनोपेता-ऽचालीद् यक्षालयान्तरे । उन्मत्तीभूय तेनासौ, श्लिष्टा लोकेन मोचिता ।।३१४६।। सा च तत्र गतोवाच, यक्ष ! साक्षात् तवाखिलम् । मुक्त्वा स्वपतिमेतं च, न स्पृष्टोऽप्यधुनापरः ।।३१४७।। इत्युक्त्वा मक्षु यक्षायो-भूत्वा मध्येन सा ययौ । ... तद्वचश्चिन्तयन्नेव, यक्षोऽस्थात् किं करोम्यहम् ? ।।३१४८।। यक्षोऽपि वञ्चितो धूर्त्या-थाभून्नूपुरपण्डिता । सर्वैः शुद्धेति सा प्रोक्ता, लोकैर्वृद्धस्तु हीलितः ।।३१४९।।
तस्याधृत्यानशनिद्रा, ज्ञातमेतञ्च भूभुजा । चक्रेऽथान्तःपुरारक्षो, राज्ञा निर्निद्र इत्यसौ ।।३१५०।। सौधोपान्तेऽस्ति हस्तीन्द्रो, राज्ञी तन्मिण्ठके रता । निशायां हस्तिहस्तेना-वरोहत्यधिरोहति ।।३१५१।। तदा जाग्रति तस्मिंश्च, मुहुर्देवी निरीक्षते । ततः सोऽभ्यनयन्निद्रां, राज्ञी प्राग्वदवातरत् ।।३१५२।। बृहद्वेला बभूवेति, हस्त्यारोहेण रोषतः । हता सङ्कलया राज्ञी, तं सोचे कान्त ! मा कुपः ।।३१५३।। अद्यारक्षो नवः कोऽपि, न स निद्राति तन्मम । वेला जातेयती तञ्च, वृद्धः सर्वं निरीक्ष्य सः ।।३१५४।। दध्यौ राज्योऽपि दुःशीला, यद्येवं रक्षिता अपि । तन्नः स्त्रीषु न दोषो य-त्रासां त्राता कुलं विना ।।३१५५ ।। युग्मम् सोऽथ सुप्तो न जागर्ति, सर्वः कोऽप्युत्थितः प्रगे ।
सप्ताहादुत्थितः सोऽथ, सर्वामाख्यत् प्रभोः कथाम् ।।३१५६।। १. परपुंसा १० टि० ।। * ०नं ६-१० ।। २. यक्षना पगमाथी नीकली १० टि० ।। . ०वं १ ।। 0 ०ताः १ ।। ३. महावत इति भाषा०।। ततः स्त्रीषु न दोषो यन्नास्ति त्रा० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org