________________
श्रीदशवकालिकसूत्रम्
२९९ सुभगा भवतु नदीयं, चिरं च जीवतु ते नदीवृक्षाः । सुस्नातपृच्छकानां, प्रयतिष्येऽहं प्रियं कर्तुम् ।।३१३२।। आर्या तस्या गृहाद्यजानन् स, डिम्भान् पप्रच्छ तत्रगान् । केयं तेऽभ्यधुरिभ्यस्य, स्नुषा सौभाग्यसुन्दरी ।।३१३३।। सोऽथ दध्यौ कथं मेऽस्याः, सङ्गमः सम्भविष्यति । ततः प्रवाजिकामेकां, दानादिभिरुपाचरत् ।।३१३४ ।। सा तेन प्रेषिता गत्वा, तदुक्तं तत्र तां जगौ । रुष्टयेवारुणीभूय, तर्जयित्वा तया स्वरम् ।।३१३५ ।। प्रक्षालयन्त्या भाण्डानि, मषीलिप्तकरण सा । हत्वा चपेटया पृष्टे-ऽपद्वारेणापसारिता ।।३१३६ ।। युग्मम् आख्यद् गत्वाथ सा तस्य, नामापि सहते न ते । ज्ञातं तेनातिदक्षा सा, विक्रीतासौ वराकिका ।।३१३७ ।। मषीपञ्चाङ्गुलीदम्भात्, पृष्टेऽपद्वारकर्षणात् ।
आहूतः कृष्णपञ्चम्या-मपद्वाराहमेतया ।।३१३८ ।। ___प्राप्तः सङ्केतकाले स, सुप्तावुपवनेऽथ तौ ।
भोजने मक्षिकेवागात्, कुतश्चित् श्वशुरस्तदा ।।३१३९ ।। ददर्शायं न मे पुत्रः, कश्चनोपपतिथि॒वम् । आचकर्ष स्नुषापादान्, नूपुरं स शनैस्ततः ।।३१४०।। ज्ञात्वोचे स तया शीघ्रं, नश्य कुर्याः सहायताम् । साथ गत्वा पतिं प्रोचे, धर्मोऽन्तः सुप्यतां बहिः ।।३१४१।। . अशोकवनिकामध्ये, सुप्तावथ मुहूर्ततः । उत्थाप्योवाच सा कान्तं, किमिदं वः कुलोचितम् ? ।।३२४२।। मत्पादाच्छशुरोऽगृह्णान्-नूपुरं निरपो जरन् ।। स ऊचे लप्स्यसे शेष्व, सुनोराख्यज्जरी प्रगे ।।३१४३।। सोऽवदद्विकलोऽसि त्वं, सोऽवक् दृष्टः स्फुटं परः ।
भोक्ष्ये शुद्धव सोचेऽथो, ऊचुः सर्वेऽपि कुर्विति ।।३१४४ ।। १. स्वपिहि ।। * श्रेष्ठि० ६-१० ।। २. विह्वल: १० टि० ।। ३. पिता १० टि० ।। । ०क्षे १.१० ।। ४. सा १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org