________________
२९८. श्रीतिलकाचार्यविरचितटीकायुतम्
अहं च भोजराज्ञः-उग्रसेनस्य दुहिता। त्वं च भवसि अंधकवृष्णे:-समुद्रविजयस्य सुतः। अतो मा एकैकस्मिन् प्रधाने कुले सन्तौ आवां गन्धनौ भूव-जघन्यसर्पकुलो भवाव इत्यर्थः। ततः संयमं निभृतश्चर-साधुक्रियाकलापम् अव्याक्षिप्तः कुरु ।
अपि चजइ तं काहिसि भावं, जा जा दच्छसि नारिओ। वायविद्धव हढो, अट्ठियप्पा भविस्ससि ।।९।।
यदि त्वं या या द्रक्ष्यसि । नारी:-रम्या रम्यतरा रम्यतमाश्च। तासु भावम्कामसेवाभिप्रायं करिष्यसि। ततो वाताविद्ध इव हठ:-वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषः। अस्थितात्मा-संयमगुणैरप्रतिबद्धमूलः भविष्यसि ।। विषयवाञ्छावात्याप्रेरित इतश्चेतश्च संसारसागरे पर्यटिष्यसि ।
तीसे सो वयणं सोचा, संजयाए सुभासियं, अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥१०॥
तस्याः-राजीमत्याः । संयतायाः-प्रव्रजितायाः । स-रथनेमिः । वचनं सुभाषितम्-संवेगरङ्गकारणम् । श्रुत्वा-तेन वचनेन। धर्म सम्प्रतिपादितः-स्थापितः। अङ्कुशेन यथा नागो-हस्ती हस्तिपकेन अपवर्त्य समभूमौ स्थापितः । अत्र चेयं कथा
॥सौभाग्यसुन्दरीकथा ।।। वसन्तपुरनाम्नास्ति, वसन्तर्तुसमं पुरम् । प्रद्युम्नानन्दिसत्प्रेक्षं, विशालं सुमनःप्रियम् ।।३१२८ ।। श्रेष्ठी तत्रेभ्यनामाभूत्, प्रेयसी तस्य धारिणी । , कान्ताननः पुनः पुत्रः, स्नुषा सौभाग्यसुन्दरी ।।३१२९ ।। स्नान्ती दृष्ट्वान्यदा नद्यां, यूना केनापि सा स्नुषा । तदङ्गसङ्गमाकाङ्क्षी, स तामूचे ससम्भ्रमम् ।।३१३० ।। सुस्नातं पृच्छति ते, नद्येषा मत्तवारणकरोरु ! । एते च नदीवृक्षाः, अहं च पादेषु ते पतितः ।।३१३१।। आर्या
हृष्ट्वा दृष्ट्वा तं साप्यूचे* भूवं ५, भूत्वा ९.१० ।। . ०उ ५-८ ।। 0 ०अ० ८ ।। सु० ६-१० ।। २ ०उ ४-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org