________________
श्रीदशवैकालिकसूत्रम्
उपकारपराः प्रायो, विरला एव मानवाः ।
उपकारमानिनस्तु, परं सन्ति न सन्ति वा । । ३१२१ । । महानरेन्द्र ! निस्तन्द्र !, परोपकृतिकर्मसु । आधमर्ण्यहरं किञ्चित्, तदस्माकं समादिश ।। ३१२२ । । सँ उवाचार्द्रया वाचा, निरीहाणां शिरोमणिः । अलं प्रत्युपकारेण, कुमारवर ! मेऽधुना ।। ३१२३ ।। चन्द्रश्चम्पकचन्दने दिनकरः, पाथोधिपाथोधरौ, पुष्यौघाः सरितः सरांसि कमला, केलीवनं पर्वताः । भोज्यान्योदनसूपहव्यविकृती-त्यादीनि सर्वाण्यहो,
,
लोकानामुपकुर्वते किमपि ते वाञ्छन्ति लोकादपि ? ।। ३१२४ । । शार्दूल० तद्यामः स्वस्ति वो भूयादित्याशीर्वादपूर्वकम् ।
आपृच्छ्य वत्सलस्तस्मान्, निर्ययौ देशचर्यया ।। ३१२५ ।। रथनेमे, ! त्वमप्येतत्, सर्पवृत्तं मरालवत् ।
मानसे रमयस्व स्वे, वान्तान् भोगान् स्मरः स्म मा ।। ३१२६ ।। तथापि तस्य भोगेच्छा, न न्यवर्तत दुर्धियः ।
२९७
राजीमती तमूचेऽथ, दुःश्रवं दुर्वचं वचः ।।३१२७ ।। धिरत्थु ते जसो कामी, जो तं जीवियकारणा ।
वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ ७ ॥
धिक्शब्दः कुत्सायां धिक् ते- पौरुषं इति गम्यते । हे अयशः कामिन् ! यस्त्वं जीवितकारणात्-असंयमजीवितहेतोः । वान्तम् इच्छसि आपातुम्—वान्ताः-परित्यक्ताः भवता व्रतं गृह्णता भोगाः,ततस्तान् वान्तान् भोगानभिलषसि भोक्तुम्। अतोऽतिक्रान्तमर्यादस्य श्रेयः - शोभनतरम् । ते मरणम् न पुनरिदमकार्याचरणम् ।
किं च आवयोर्यत्कुलं तदपि न चिन्तयसि ? -
अहं च भोयरायस्स, तं च सि अंधगवह्निणो ।
मा कुले गंधणा होमो, संजमं निहुओ चर ||८||
०द्रः १ ।। ५ उवाच चा० ६.८-१० ।। १. मेघ० १० टि० ।। ० ०ग० ८ ।। । ० ४-८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org