________________
____२९५
श्रीदशवकालिकसूत्रम् ते मान्त्रिकेन्द्रमाकार्य, कुमारार्थे जगौ नृपः । स उवाच नरेन्द्रोऽहं, तदन्यायिनमानये ।।३०९६ ।। राजोचेऽथ गतः क्वापि, कथमेष्यति सोऽवदत् । शृगाली सवितुर्नष्टा, कियदूरं गमिष्यति ? ।।३०९७।। गव्यूतपञ्चकात् सर्पान्, सप्ताहाभ्यधिकायुषः । आनेष्यामि समाकृष्य, सर्वान् धृत्वेव पाणिना ।।३०९८ ।। ते च दक्ष्यन्ति नायान्तो, बालादीनामुपर्यपि । सुकुमालानि शीतानि, नालानीवाम्बुजन्मनाम् ।।३०९९ ।। महाराज ! ततः पञ्च-क्रोशी यावत् समन्ततः । घात्यः केनापि नैवाहि-रागच्छन्निति घोषय ।।३१०० ।। अघोषयत् सर्परक्षां, तदुक्तभुवि भूपतिः । नरेन्द्रोऽथ तदैकत्र, कुमारं न्यास मण्डले ।।३१०१।।
आस्तैकत्र स्वयं चक्रे, भोगिनां नवमण्डलीम् । कृत्वात्मरक्षोऽथाहीना-माकृष्टिं जपति स्म सः ।।३१०२।। भोगिनः सर्वतोऽभ्येत्य, नरेन्द्र प्रणिपत्य च । विविशुः स्थानके स्वे स्वे, स्वामिनं सेवका इव ।।३१०३।। प्राप क्षमापः पश्यंस्तान्, सर्पान् तद्विनयक्रियाम् । शोकावेगेऽतिगाढेऽपि, विस्मयातिशयङ्गतः ।।३१०४।। अहो! आश्चर्यकारीदं, नरेन्द्रस्यास्य वल्गितम् । न दृष्टं न श्रुतं क्वापि, लोकः सर्वोऽप्यवोचत ।।३१०५ ।। अथायातेषु सर्वेषु, सपेष्वित्यादिदेश सः । येन दष्टः कुमारोऽयं, स ऊर्वीभवतूत्फणः ।।३१०६।। तेनाक्षिप्तः स ऊर्ध्वाऽभूत्, तत्रायतफणः फणी ।
तदैवाभिमुखस्तस्या-गन्धनो गन्धहस्तिवत् ।।३१०७ ।। • मन्त्री तत्र तमानैषीत् २.६-१०, इतः श्लोका) ४ प्रतौ नास्ति ।। १. सर्पम् ।। • गवा० ६-१० ।। . एकत्रास्त २.६-१० ।। * ०पि १-५ ।। ३ हे ६-९ ।। + तात् फणी ६.८-१० ।। . ऊर्ध्वः कुमारदंप्यभूत् तत्रा० १, ऊर्ध्वः कुमारदंष्टाभूत् तत्रा० ३.४, ऊर्ध्वः कुमारदंष्टाभूत् तेना० ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org