________________
२९४
श्रीतिलकाचार्यविरचितटीकायुतम्
उत्फुल्लकिंशुकमिषाद्विधिबन्धकर्त्ता, कौसुम्भरङ्गभरिताः परितोऽपि पात्र्यः । चक्रे वसन्तदयितापरिभोगहेतो- र्दातुं किलाभिनवघट्टयुगेषु रङ्गम् ।।३०८३ वसन्त० उद्यानपालकेनाथ, वर्धाप्यते स्म तत्क्षणात् ।
वसन्तऋतुराजस्या-गमनेन महीपतिः । । ३०८४ । । वीरसिंहकुमारोऽथा-नुज्ञाप्य पितरं नृपम् ।
द्रष्टुमाराममभ्यगात् ।।३०८५ ।।
ऋतुराजस्य सामग्रीं, बालकैः केतकीहस्तैः क्रीडावासमचीकरत् । अन्तःसुगन्धिपुष्पौघैः, शय्यां पुष्पगृहं तथा ।।३०८६।। पश्यन् पल्लवितांस्तत्र, पुष्पितान् फलीतांस्तरून् । गीयमानगुणान् भृङ्गै-र्वासन्तान् सुभटानिव ।। ३०८७ ।। वैतालिकानिव शुकान्, पठतः सुरभेर्गुणान् । कोकिलानां कलालापान्, गीती : कौतुकिनामिव । । ३०८८ । प्रेक्षणादिषु वादित्र-ध्वनित्रैरन्तरिक्षगैः ।
,
शृण्वन् वसन्तराजस्य, नैःस्वानान्निःस्वनानिव ।।३०८९।। भुक्त्वा पीत्वा च तत्रैव, पुष्पतल्पेऽस्वपीन्निशि । पुष्पगन्धेन तत्रैत्य, कुमारं दष्टवानहिः ।।३०९०।। चतुर्भिः कलापकम्
!
प्रातर्विज्ञातवृत्तान्ता, राजा राज्ञी च नागराः ।
सर्वे शोकाहिना दष्टाः, कुमार इव मूर्च्छिताः ।।३०९१।। धर्म्यवाग्मन्त्रजपनैः, शोकापनोदमात्रिका : । शोकाहिविषमूच्छाँतां, तेषां शीघ्रमवालयन् ।।३०९२।। कुमारविषमूच्छ च, हर्तुं मान्त्रिकतान्त्रिकाः ।
अथाहूयन्त भूपेन, तथा सर्वेऽपि सर्वतः ।। ३०९३ ।। मन्त्रतन्त्रप्रयोगांश्च मन्त्रतन्त्रविदोऽखिलाः । प्रायुञ्जन् विकलास्ते तु बभूवुरवकेशिवत् ।।३०९४ ।। महानरेन्द्रः कोऽप्यागात्, तदानीं तत्र पत्तने ।
आहूत इव कौमारे-णायुषा दैवयोगतः ।। ३०९५।।
१. बन्धुरउ १ टि०, बन्धारक २ टि० ।। तत्रैव १, तत्रागात् २.६-१० ।। धर्मवा० ५.६.१० ।। २.
अफलवृक्षवत् १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org