SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् स्वर्भूर्भुवस्त्रयी वीरो, वीरसिंहस्तयो सुतः । योद्धा पश्चाशतो वीरा-न तृणायापि मन्यते ।।३०७१।। यद् गुणानां महाराशेः, कणानामिव तस्थुषः । मानाय हारक इव, ब्रह्माडं प्रतिभासते ।।३०७२ ।। राजन्वानखिलो देशो, नगराण्यकराणि च । ग्रामाः सस्याभिरामाश्च, लोकश्चास्तोकवैभवः ।।३०७३।। इहातिप्राज्यसाम्राज्य-सुखातिशयशालिनाम् । नृणां दिवीव देवानां, कालं यान्तमजानताम् ।।३०७४ ।। दिदृक्षुरिव तद्देश-सम्पदं सर्वतोद्भुताम् । ऋतुराजो वसन्ताख्य-स्तत्रावासानुपाददे ।।३०७५ ।। युग्मम् वितरन् सुवर्णराशि, विलसति वन्यां वसन्त ऋतुराजः । गीतेषु रज्यमानः, केलकण्ठीकण्ठलुठितेषु ।।३०७६।। आर्या विस्मेरशुभ्रप्रैसवौघपूरिताः, अन्दोल्यमानाः पवनेन वीरुधः । वनेऽवतीर्णस्य वसन्तभूपते-राबिभ्रते चामरधारिकाश्रियम् ।।३०७७।। उपजातिः पर्युल्लसद्विकचमञ्जरिपिञ्जरेषु, माकन्दशाखिषु वसन्तमहीश्वरस्य । गुष्यद्गुरुष्विव सुवर्णमयेषु भान्ति, दृग्दोषहाः परभृतोऽञ्जनहस्तकाभाः।।३०७८वसन्त० वनावलीमद्भुतपत्रपुष्प-फलद्धिपूर्णां सकलां विधाय । आयातमात्रोऽपि किल द्विजेभ्यो, मधुनृपो ब्रह्मपुरीमिवादात् ।।३०७९।। उपेन्द्रवज्रा धूलीकदम्बाः स्वपरागपुरैः, समुद्धतैर्गन्धवहप्रयोगात् । वसन्तराजागमनेऽन्तरिक्षे, चक्रुः किलोच्चैः पटमण्डपौघान् ।।३०८० ।। उपेन्द्रवज्रा खेलन्ति दोलासु वनेषु बालाः, समुल्लसञ्चम्पकपुष्पवर्णाः । लक्ष्या अलक्ष्याश्च मुहुर्धमेण, तडिद्वदब्देषु समुनतेषु ।।३०८१।। उपेन्द्रवज्रा गते तपस्ये जगतः प्रकम्पने, निरस्तनिःशेषवनावलीदले । नवप्रवालाभरणश्रियो द्रुमाः, सर्वेऽप्यशोका इव जज्ञिरे मधौ ।।३०८२।। उपेन्द्रवज्रा १. प्रमाता १० टि० ।। * ०डमिदमस्थित २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। . स्ति ९ ।। 0 दिवीव देववृन्दानाम् २.६-१० ।। २. कोकिला १० टि० ।। ३. पुष्पम् ।। * °चमूनृपाणाम् २.६-९ ।। ४. कोकिला ।। २००२ ।। - द्विजानां सत्पक्षिणां २.६-१०, अयं, मूलपाठः १० टिप्पण्यामपि ।। ५. फाल्गुने १० टि० ।। ६. वायोः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy