________________
२९२ . श्रीतिलकाचार्यविरचितटीकायुतम्
राजीमतीमुपागत्य, रथनेमिरथावदत् । परित्यज परिव्रज्यां, केलिशय्यामुरीकुरु ।।३०५९।। । किमिदं यौवनवनं, विफलीक्रियते वृथा? । वार्धके पुनरावाभ्यां, व्रतमादास्यते शुभे ! ।।३०६०।। राजीमत्यवदत् साधो !, किमात्मा विस्मृतस्तव ? । वान्तान् भोगान् यदेवं त्वं, भूयो भोक्तुं समीहसे ।।३०६१ ।। संयतीप्रतिसेवाया, वाञ्छयाप्यधमाधम ! । दुर्लभं बोधिरत्नं ते, भवाम्भोधौ भविष्यति ।।३०६२।। श्रीनेमिजिनशिष्योऽपि, भूत्वाभूस्त्वं किमीदृशः ? । किं हंसकुलजातोऽपि, बकवज्जातु जायते ? ।।३०६३।। . तस्याप्यगन्धनानों, रथनेमे ! समो भवान् । यो जीवितनिराकाङ्क्षो, न वान्तं विषमात्तवान् ।।३०६४ ।।
॥अगन्धनसर्पकथा ।। । तत्कथा चेयं- कल्याणपुरनाम्नास्ति, पुरं कल्याणवासभूः ।
गृहे गृहे च पौराणां, यत्र कल्याणकोटयः ।।३०६५ ।। श्रीमतां गृहिणां स्त्रैण-रत्नाभरणतश्युतैः । . नीतैर्वर्षाम्भसाकृष्य, रत्नै रत्नाकरोंऽभवत् ।।३०६६ ।। राजा कल्याणचन्द्रोऽभूञ्च-चन्द्रोज्ज्वलगुणोत्करः । कल्याणसिद्धितो यस्य, साम्राज्यं चक्रवर्तिवत् ।।३०६७ ।। यत्प्रतापो नवः कोऽपि, वैरिस्त्रीहद्गतानपि । अन्तः प्रविश्य शोकाग्नि-व्याजाद् दहति तानरीन् ।।३०६८।। यत्कीर्तिनर्तकीभाल-स्थालालङ्कारकारकः । चान्दनश्चन्द्रक इव, राजते रजनीपतिः ।।३०६९।। सर्वाङ्गसुन्दरी तस्य, प्रेयसी श्रेयसीतमा ।
यामालोक्य स्वरूपं च, लजन्तेऽप्सरसोऽपि हि ।।३०७०।। * ०ती ७.९ ।। . ०मप्यधमाधमाशया ८ ।। 6 न त्वं तस्योरगस्यापि, रथनेमे समो भवः । गृह्णाति स्म विषं वान्तं, यतो ना गन्धनोरगः २.६-१० ।। १. सुवर्णभूमिः ९ टि० ।। ब्रह्माण्डं प्रति भासते २.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org