________________
२९०
श्रीतिलकाचार्यविरचितटीकायुतम् स्वाभ्यूचे तन्न ते कर्म, क्षीणं लब्धिस्त्वियं हरेः ।। हरिणा प्रणतोऽसीति, श्रेष्ठिना प्रतिलाभितः ।।३०३६।। परलब्धिर्न भोग्येति, स गतः स्थण्डिलावनौ । तित्यक्षुर्मोदकांस्तेषु, क्षुधितोऽप्यकृतस्पृहः ।।३०३७ ।। मोदकांचूरयंस्तत्र, घातिकर्माण्यचूरयत् । तदैव केवलज्ञानं, लेभेऽत्यद्भुतभावनः ।।३०३८ ।। युग्मम् ढण्ढणपिरथागत्य, प्रभोर्दत्वा प्रदक्षिणाम् । आस्ते स्म केवलज्ञानी, पूर्वकेवलिपर्षदि ।।३०३९ ।।
अथो विहत्य भगवान्, प्रतिबोध्य बहून् जनान् । पर्वते द्वारिकासन्ने, रैवते समवासरत् ।।३०४०।। रथनेम्येकदा भिक्षां, भ्रान्त्वा गच्छन्नुपप्रभुं । प्रविवेश गुहामेकां, पतति स्पर्शने घने ।।३०४१।। श्रीमन्नेमिविभोर्व्याख्या-मुज्जयन्ताद्रिमूर्धनि । ' निशमय्यावरोहन्त्याः, साध्वीभिः सममेकदा ।।३०४२।। राजीमत्यास्तदानीं च, पयोमुचि पयोमुचि । कापि क्वाप्यस्मनोऽध-स्तर्यामार्या स्थितानघा ।।३०४३।। पयःस्पर्शनरक्षार्थं, राजीमत्येकका पुनः । रथनेमिं गुहामध्ये-ऽविशद् द्रुतमजानती ।।३०४४ ।। सलिलार्द्राणि वासांसि, कम्बली च व्यसारयत् । तत्र चाग्रे रथनेमि-र्थ्यानासीनोऽभवन् मुनिः ।।३०४५।। बहिः प्रदेशादेयुष्या, राजीमत्या स नेक्षितः । राजीमती पुनस्तेन, प्रत्यङ्गमवलोकिता ।।३०४६।। तद्रूपालोककल्पान्त-कालप्रक्षुभितो मुनेः ।
स्वान्तश्रोतस्विनीनाथः, कामकल्लोलभागभूत् ।।३०४७।। * ०क्ष० ३-५.१० ।। * रे० १.३.७ ।। 0 ०भुम् २, ०भुः ५-१० ।। - ०थवा २, ० नया ५, ०श्च ताः ६९, यथा १० ।। है तदा गुहायामेकस्यां प्रविवेश महासती २.६-१० ।। + मनोम्भोधिस्ततश्चासौ, कामकल्लोललोलितः
२.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org