________________
श्रीदशवैकालिकसूत्रम् धनाढ्यभाक्तिकोदार-लोकायामपि पुर्ययम् । न भिक्षामात्रमप्याप्नो-तीश ! किं तत्र कारणम् ? ।।३०२३।। स्वाम्याह मागधो ग्रामो, यथार्थो धान्यपूरकः । तत्र राजनियुक्तोऽभून्, नाम्ना विप्रः पराशरः ।।३०२४ ।। क्षेत्राणि राज्ञो ग्रामीणैः, खेटयन् वापयन् द्विजः । भक्ते प्राप्तेऽपि भुक्तयर्थं, निघृणस्तान् मुमोच न ।।३०२५ । । क्षुत्तृषातः परिश्रान्तै-रपि प्रेष्यैर्वृषैश्च सः । प्रसह्याकर्षयन् क्षेत्रे, सीतामेकां निजे द्विजः ।।३०२६।। कर्मान्तरायमेवं सो-ऽर्जित्वा भ्रान्त्वा चिरं भवे । ढण्ढणः कृष्णसूर्जज्ञे, तत्कर्मास्याधुनोदितम् ।।३०२७ ।। तत् समाकर्ण्य संवेगात्, कृष्णभूः प्रभुसन्निधौ । न भोक्ष्ये परलब्ध्याहं, स जग्राहेत्यभिग्रहम् ।।३०२८ ।। स्वयमप्राप्नुवन् किञ्चित्, परलब्धिमनाहरन् । परीषहान् सहन्नस्थात्, कालं कमपि ढण्ढणः ।।३०२९ ।। ___ अप्राक्षीत् पुण्डरीकाक्षः, प्रणम्य प्रभुमन्यदा । महर्षीणाममीषां कः, स्वामिन् ! दुःकरकारकः ? ।।३०३० ।। स्वाम्याख्यन् मुनयो राजन् !, सर्वे दुःकरकारिणः । ढण्ढणस्तु विशेषेण, सोढाऽलाभपरीषहः ।।३०३१ ।। विष्णुः प्रभुं प्रणम्याथ, प्रविशन् द्वारीकापुरीम् । भिक्षाचर्याकृते साधु-मटन्तं वीक्ष्य ढण्ढणम् ।।३०३२।। उत्तीर्य कुञ्जरस्कन्धात्, प्रणनाम जनार्दनः । श्रेष्ठिनैकेन दृष्टोऽसौ, वन्द्यमानो गदाभृता ।।३०३३।। राजपूजित इत्येष, नीत्वा तेन निजे गृहे । मनःप्रमोदकैः प्राज्यैः, प्रत्यलाभ्यत मोदकैः ।।३०३४ ।। उपेत्य ढण्ढणोऽथ श्री-नेमिं नत्वेदमभ्यधात् ।
स्वामिन् ! मे कर्म किं क्षीणं ?, यल्लेभे मोदकानहम् ।।३०३५ । । ग्रामो मगधदेशेऽस्ति २.६-१० ।। १. क्षेत्रे हलरेखाम् ।। २. कृष्णः ।। • कु० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org