________________
२८८. श्रीतिलकाचार्यविरचितटीकायुतम्
स्वाम्यूचे हारितं तत्र, जितमद्य पुनस्त्वया । तीर्थकृन्नाम गोत्रं च, सम्यक्त्वं क्षायिकं तथा ।।३०१०।। सप्तम्याश्च तृतीयायां, पृथिव्यामायुराहितम् ।। इयाँलाभोऽभवत् कृष्ण-वन्दनस्य प्रभावतः ।।३०११।। युग्मम् अथ श्रान्तोऽपि कृष्णोऽवक्, पुनर्यच्छामि वन्दनम् । यथेश ! नरकायुमें, प्राग्वत् त्रुटति मूलतः ।।३०१२ ।।. स्वाम्युवाच तवेदानी-मिदं स्याद् द्रव्यवन्दनम् । फलं तु प्राप्यते भाव-वन्दनादन्यथा तु न ।।३०१३।। वीरकस्य फलं कृष्णो-ऽप्राक्षीदाख्यञ्च तत्प्रभुः । फलमस्य वपुःक्लेश-स्त्वं च स्वामी स्थिरोऽभवः ।।३०१४ ।। प्रणिपत्य प्रभोः पादान्, भावयन् भाषितं विभो । द्वारवत्यां ययौ पुर्यां, कृष्णोऽथ सपरिच्छदः ।।३०१५ ।।
अन्यञ्चास्ति गदास्त्रस्य, प्राणेशा ढण्ढणाभिधा । तदङ्गभूढण्ढणाह्वः, कुमारः सुकुमारगीः ।।३०१६ ।। अथासौ यौवनारूढः, प्रौढधामा दृढाशयः । प्रेयस्यस्तस्य चाभूवन्, भूयस्यो भूपकन्यका ।।३०१७ ।। सोऽन्यदा भगवत्पाद्ये, शुश्राव श्रवणप्रियम् । कर्ममर्माविधं धर्मं, तेनाभूद् व्रतभावनः ।।३०१८ ।। ततो दीक्षामुपायंस्त, शिक्षानुचरिकान्विताम् । त्यक्तान्यदयितः पित्रा, कृतनि:क्रमणोत्सवः ।।३०१९ ।। व्यहार्षीत् प्रभुभिः सार्धं, श्रद्धानि|तकल्मषः । आसन्नीकृतनिर्वाणः, कुर्वाणः सर्वसंयमम् ।।३०२०।। अथ तस्योदगात् तीव्र, प्राच्यं कर्मान्तरायकम् । स्वयं न लभते किञ्चित्, सहचार्यपि तस्य च ।।३०२१।। श्रीनेमिं प्रणिपत्यैव-मप्राक्षुस्ते मुमुक्षवः ।
स्वर्भूभुवः प्रभोः शिष्यः, सूनुः कृष्णस्य ढण्ढणः ।।३०२२ ।। १. कृष्णस्य ।। * गाम्य० २.६-९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org