________________
२८४ श्रीतिलकाचार्यविरचितटीकायुतम्
इत्यन्तश्चिन्तयन्तस्ते, सर्वे तद्दुःखदुखिताः । मनस्तदन्तिके मुक्त्वा, यास्यन्त्यङ्गेन साधवः ।।२९४९ ।। इतः स कपियूथेश-स्तत्रैष्यत्यथ तं मुनिम् । दृष्ट्वाग्रेगाः करिष्यन्ति, सर्वे किलकिलायितम् ।।२९५०।। तान् पश्चात्कृत्य यूथेशः, स पुरोभूय तं मुनिम् । निध्याय ध्यास्यति स्वान्ते, केदृक्षाः प्रेक्षिता मया ? ।।२९५१।। स्मरिष्यति ततः सौर्व, प्राग्भवे वैद्यकं च तत् । आनेष्यत्यौषधी शैलाद्, विशल्यां रोहिणी च सः ।।२९५२।। दन्तैः पिष्ट्वा विशल्यां स, साधोः पादे निधास्यति । ' विशल्यं तत्क्षणात् पादं, रौहिण्या रोहयिष्यति ।।२९५३।। द्वारिकायां बभूवाहं, वैद्यो वैतरणिः पुरा । लिखिष्यत्यक्षराणि स्वं, ज्ञापनाय मुनेः पुरः ।।२९५४ ।। तत्स्वरूपं मुनिख़त्वा, धर्मं तस्योपदेक्ष्यति । . उत्पत्स्यते सहस्रारे, से त्र्यहानशनी सुरः ।।२९५५ ।। स तदैवावधिज्ञानात्, तद् द्रक्ष्यत्यात्मनो वपुः । ददानं च नमस्कार, तं मुनिं निकरस्थितम् ।।२९५६।। संतत्रत्याथ देवस्तं, मुनिं नत्वाभिधास्यति । दिव्या देवधिरेषाभूत्, त्वत्प्रसादान् मुने ! मम ।।२९५७ ।। अथोत्पाट्य मुनिं तं स, स्वगच्छे मेलयिष्यति । आख्यास्यति स्वसाधूनां, स साधुस्तां कपेः कथाम् ।।२९५८ ।। श्रुत्वा तच्चरितं विष्णु-धर्मभावितमानसः । नत्वागात् स्वामिनं स्वाम्य-प्यन्यतो विहतस्ततः ।।२९५९।।
वार्दवज्जगदानन्दी, प्रारम्भे प्रावृषोऽन्यदा ।
श्रीनेमिरिकापुर्या-मुपेत्य समवासरत् ।।२९६० ।। * जग्मुः कायेन २.६-१० ।। । सो यं ६-१० ।। ० ०त्यो० १.३.४.७ ।। * भविष्यति २, सहस्रारे सुरो भावी ६-१० ।। १. कपिः ।। है कपि २.६-१० ।। + तद्वक्ष्य० १.३ ।। . ० १ ।। २. जलदवत् १० टि० ।। रेभे ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org