SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् आदिदेश च वैद्यौ द्वौ, दत्वा वृत्तिं निजां स्वयम् । निःस्वान् दर्शनिनोऽध्वन्यान् प्रति जागरितुं हरिः ।। २९३७ ।। आद्यो वैतरणिर्वैद्य-श्चिकित्सति कृतादरः । निःस्वादीन् योगभैषज्य-दानेनाकृतनीरुजः ।। २९३८ ।। धन्वन्तरिस्तु कुरुते, सावद्यं वैद्यकं भिषक् । अभ्यधुः साधवोऽस्माकं, बुध्यते नेहगौषधम् ।।२९३९ ।। प्रत्यूचे तानसूयन् स, नैव युष्मत्कृते मया । अधीता वैद्यका ग्रन्था, मा कृढ्वं मद्वचस्ततः ।। २९४० ।। वैद्यौ द्वावपि तावेवं, कुर्वाते तत्र वैद्यकम् । प्रभुं कृष्णोऽन्यदाप्राक्षी-देतौ कां यास्यतो गतिम् ? ।। २९४१ ।। भगवान् कंथयामास, सप्तमे नरके भिषक् । प्रतिष्ठामप्रतिष्ठाने, धन्वन्तरिरवाप्स्यति ।।२९४२ ।। भावी वैतरणिर्वैद्यः, प्लवगो विन्ध्या । भविष्यति युवावस्थ- स्तत्र वानरयूथपः ।।२९४३ ।। आयास्यन्त्येकदा तत्र, वने सार्थेन साधवः । तत्रैकस्य मुनेरंहि-तले शल्यं प्रवेक्ष्यति ।। २९४४ ।। आक्रष्टुं तस्य शल्यं त-न्न शक्ष्यन्त्यन्यसाधवः । ततः प्रतीक्ष्यमाणांस्तान्, स वक्ष्यत्येवमत्र यत् ।।२९४५ ।। मुक्त्वा मां यात सर्वेऽपि मा स्म मत्पृष्ठगा मृत । सार्थेन सह यास्यन्ति, च्छायायां ते विमुच्य तम् ।। २९४६ ।। भविष्यति कथं साधु-रेकाक्येष विमानुषे । अपारेऽमुत्र कान्तारे, दुष्टश्वापदभीषणे ।। २९४७ ।। न भक्तं नापि पानीयं क्षुत्तृषाबाधितस्ततः । दुःश्वापदहतो वापि, विपत्स्यते कथं हहा ! ।।२९४८।। * देव्यौ ५ ।। ०शि० ५ ।। ० ०गो० १.३.४.९ ।। ०स्था० २.६.८-१० ।। शक्षं १.३.४, शक्यं ६.८ १० ।। Jain Education International २८३ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy