________________
२८२ . श्रीतिलकाचार्यविरचितटीकायुतम्
तुष्टः सोऽथ सुरः शक्र-श्लाघाामाख्याय शाङ्गिणः । ऊचे वरं वृणु हरे !, न मोघं देवदर्शनम् ।।२९२५।।
अथ कृष्णः सुरं स्माह, नगरी मम सम्प्रति । रोगोरगविषाक्रान्ता, तस्याः शान्त्यौषधं दिश ।।२९२६ ।। विष्णोर्देवो ददौ भेरी-मचीकथदसौ त्वया । षड्भ्यः षड्भ्योऽथ मासेभ्यो, वादनीयात्मनः पुरे ।।२९२७ ।। . अस्याः शब्दे श्रुते रोगा, यास्यन्ति प्राक्तनाः शमम् । नवीना न भविष्यन्ति, षण्मासी यावदच्युत ! ।।२९२८ ।। इत्युदीर्य ययौ देव-स्तां भेरी कंससूदनः । तदैवावादयद् रोगो-पशमश्चाभवत् पुरे ।।२९२९ ।।
अथ लक्षेण लक्षण, भेर्यास्तस्याः पलं पलम् । . विक्रीणानो लुभा रक्षी, रोगिणां चोपरोधतः ।।२९३० ।। श्रीखण्डखण्डकैस्तस्या-स्तानि स्थानान्यपूरयत् । । भेरी चन्दनकन्यां तां, सकलामप्यचीकरत् ।।२९३१ ।। अशिवे त्वन्यदा जाते, गोविन्दस्तामवीवदत् । अतिजर्जरनादां तां, श्रुत्वा चेतस्यचिन्तयत् ।।२९३२।।. सुघोषघण्टानादाभूत्, पूर्वं कृतचमत्कृतिः । सेयं कथमिदानीं तु, जाता मशकनादिनी ।।२९३३।। अथ प्रात्ययिकान् पुंसः, पृष्टवान् कंसहिंसकः । किं भेरीध्वनिरीदृक्ष-स्तेऽप्याचख्युर्यथास्थितम् ।।२९३४ ।। कृष्णोऽवधीत् तमारक्षं, भेरी लेभेऽपरां ततः । देवादष्टमभक्तेन, किं दुःप्रापं महीयसाम् ? ॥२९३५।। भेर्यास्तस्याः प्रणादेन, नीरोगाभूत् पुरी क्षणात् ।
सर्वज्ञवचनेनेव, पर्षनिःसंशयाखिला ।।२९३६।। * इमौ द्वौ श्लोको ६-९ प्रतिषु न स्तः ।। . ०न्त्यो० १.३-५ ।। ० ०तः १.५-१० ।। - विक्रीणन् रक्षको लोभाद् २.६-१० ।। । नैव १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org