________________
श्रीदशवैकालिकसूत्रम् इत्युक्त्वा मस्तके तस्य, न्यस्य कुम्भस्य कण्ठकम् । अपूरयञ्चिताङ्गारै-रात्मानं च तमोभरैः ।।२९१२ ।। सहमानः स तत्कष्टं, विपन्नः सागरः सुधीः । शुभध्यानसहायोऽसौ, सुखेन त्रिदिवं ययौ ।।२९१३। ।
शक्रोऽन्यदा सदस्यूचे, मुक्त्वा दोषान् गुणान् हरिः । आदत्ते सज्जन इव, नीचयुद्धैर्न युध्यते ।।२९१४ ।। अश्रद्दधानस्तत्कश्चि-दागमद् द्वारिकां सुरः । तदा श्रीनेमिनं नन्तुं, कृष्णोऽतिहस्तयन् ययौ ।।२९१५ ।। दुर्गन्धः कुथितः श्याम-श्चलत्कृमिकुलाकुलः । विहितस्तेन मार्गेऽस्ति, शुभ्रदन्तः पुनः शुनः ।।२९१६।। नासापुटस्फोटकृता-तदुर्गन्धेन बाधितः । राजलोकः पुरोगामी, रणभग्न इवावलत् ।।२९१७ ।। पृष्टाः कृष्णेन ते यूयं, वलिताः किमु ? तेऽभ्यधुः । शुनः स्वरूपं राजोचे, गच्छतोपरि वायुना ।।२९१८ ।। तथैव गच्छतां तेषा, दृष्ट्वा श्वानं पथे हरिः । ऊचेऽस्य दशनाः कुन्द-कलिकासदृशाः सिताः ।।२९१९ । । सुरोऽथाश्वहरो भूत्वा, जहाराश्ववरं हरेः । अन्वागतानि सैन्यानि, सर्वाण्यपि जिगाय सः ।।२९२० ।। अथान्वगात् स्वयं विष्णुः, प्रत्यासन्नं तमभ्यधात् । हृत्वाश्वरत्नं मा गास्त्वं, मुश्च नो चेन्मरिष्यसि ।।२९२१ ।। देवोऽप्यूचे समीके मां, जित्वाश्वो गृह्यतामयम् । कृष्णोऽप्युवाच रथ्यस्मि, त्वमपि स्या रथी युधे ।।२९२२।। ऊचे देवोऽपि पर्याप्तं, रभाश्वादिभिर्मम । युद्धैश्चान्यैर्मया सार्धं, युतयुद्धं विधीयताम् ।।२९२३।। प्रच्यूचे वासुदेवोऽपि, जितोऽहं गृह्यतां हयः ।
न नीचयुद्धं विदधे, सर्वस्वहरणेऽपि हि ।।२९२४ ।। * ०ङ्ग १ ।। किमथ तेऽभ्यधुः १.३-५, किमदादितैः २ ।। १. युधे १० टि० ।। 0 युधेः १, युधि ५-१० ।। * गुद० ५, पुनः ९ ।।
न नाचक्ष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org