SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २८० . श्रीतिलकाचार्यविरचितटीकायुतम् तथाद्य नगरीमध्ये, विशन्तं त्वां निरीक्ष्य यः । मरिष्यति शिरःस्फोटाज्-ज्ञेयः स भ्रातृघातकः ।।२८९९।। युग्मम् रुदन्नुच्चैस्ततो भ्रातुः, संस्काराद्यां हरिय॑धात् । विशन्नथ पुरीं सोम-मवलोक्य तथा मृतम् ।।२९०० ।। बन्धयित्वा पदोः पुर्यां, कर्षयित्वान्त्यजैनरैः । गृध्रादीनामिव बलिं, तमथाक्षेपयद् बहिः ।।२९०१।। बहवो यदवः शोकात्, तस्माद् भवविरागिणः ।। समुद्राद्या दशार्हास्ते, वसुदेवं विना नव ।।२९०२ ।। शिवादेवी प्रभोर्माता, प्रभोः सप्तसहोदराः । अन्येऽपि हरिकुमारा-स्तथा राजीमती तदा ।।२९०३।। नन्दसूरेकनासा च, बह्वयश्चान्या यदुस्त्रियः । हरेश्च कन्यकोद्वाह-प्रत्याख्यानात् तदङ्गजाः ।।२९०४।। . देवकीकनकवती-रोहिणीभिर्विनापराः । वसुदेवाङ्गनाः सर्वाः, प्राव्रजन् प्रभुसन्निधौ ।।२९०५ ।। चतुर्भिः कलापकम् अभूत् कनकवत्यास्तु, चिन्तयन्त्या भवस्थितिम् । गृहेऽपि केवलज्ञानं, भरतक्ष्मापतेरिव ।।२९०६।। .. केवलज्ञानमहिमा, गत्वा तत्र कृतः सुरैः । संयमं स्वयमादाय, कृत्वा श्रीनेमिदर्शनम् ।।२९०७ ।। गत्वोद्याने कृताहार-त्यागात् त्रिंशदिनान्यसो । क्षिप्त्वा कर्माण्यशेषाणि, महानन्दपदं ययौ ।।२९०८ ।। युग्मम् तदा सागरचन्द्रश्च, नप्ता रामस्य नैषधिः । गृहीताणुव्रतः पूर्वं, प्रपन्नप्रतिमामथ ।।२९०९।। स्मशाने कृतवान् कायो-त्सर्गं स्वीकृतपौषधः । छिद्रान्वेषी तदा तस्य, नभःसेनस्तमैक्षत ।।२९१० ।। तमथाह स पापात्मा, पाखण्डिन्नधुना तव । कमलाहरणछद्म-प्रायच्छित्तं ददाम्यहम् ।।२९११ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy