________________
श्रीदशवैकालिकसूत्रम्
२७९ तत्र दीक्षां प्रपन्नेऽथ, तद्वियोगाग्नितापिताः । रुदन्तो मातापित्राद्याः, स्वाङ्गं सिषिचुरश्रुभिः ।।२८८७ ।। सायं पृष्ट्वा प्रभुं कायो-त्सर्ग पितृवने व्यधात् । बहिर्गतस्तदाद्राक्षीत् सोमशर्मा द्विजब्रुवः ।।२८८८।। दध्याविति स मत्पुत्री, परिणीय विडम्ब्य च । एष पाखण्डमाधाय, स्थितोऽथामुष्य कोपतः ।।२८८९।। चिताङ्गारभृतं मूर्ध्नि, घंटीकण्ठं न्यधत्त सः । स्वमूर्धनि पुनः पाप-भारमारोपयत् क्रुधीः ।।२८९० ।। युग्मम् हते कर्मान्धकारे तै-श्चिताङ्गारैः स निश्यपि । सञ्जाते केवलालोके, गजः शिवपुरीं ययौ ।।२८९१ ।।
यमिनं शमिनं नन्तुं, प्रातर्धातरमच्युतः । चचाल रभसोत्तालः, श्रीनेमिजिनसन्निधौ ।।२८९२ ।। चैत्यार्थमिष्टिकां मूर्धा, वहन्तं वीक्ष्य वाडवम् । कृपालुरिष्टिंकापाकात्, तत्रैकां स्वयमिष्टिकाम् ।।२८९३ ।। निन्ये विष्णुरथैकैकां, निन्युः सर्वेऽपि तज्जनाः । एवं द्विजं कृतार्थं तं, कृत्वा श्रीनेमिनोऽन्तिके ।।२८९४ ।। गत्वा प्रभुं नमस्कृत्या-पृच्छद् गजः क्व मेऽनुजः । स्वाम्यप्याख्याद् गतो मोक्षं, वृत्तान्तात् सोमशर्मणः ।।२८९५ ।। त्रिभिर्विशेषकम् भ्रातृशोकविषावेगान्, मुमूर्च्छ मधुभित्ततः । लब्धसंज्ञस्तु पप्रच्छ, स पापी ज्ञास्यते कथम् ? ।।२८९६ ।। स्वाम्यूचे मा कुपस्तस्मै, तत्साहाय्यान् मुहूर्ततः । चिरघात्यानि ते भ्राता, घातिकर्माण्यघातयत् ।।२८९७ ।। त्वया यथाद्य विप्रस्य, स्थविरस्येष्टिकार्पणात् ।
इष्टिका वर्षमेल्यास्ता, मुहूर्तेनापि मेलिताः ।।२८९८ ।। १. स्मशाने ।। * स दध्यौ मम पुत्रीं यं २.६-१०, प्रदध्याविति मत्पुत्री ५ अयं मूलपाठः १० टिप्पण्यामपि ।। . लम्बिता १.२.६-१० ।। २. स्फुटितघटस्य कण्ठदेशं [कांठो इति भाषा०] १० टि० ।। ३. द्विजम् ।। ४. निभाडो इति भाषा० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org