________________
२७८
श्रीतिलकाचार्यविरचितटीकायुतम्
हृतानि सप्त रत्नानि, सपत्न्याः प्राग्भवे त्वया । रत्नमेकं पुनस्तस्या, रुदत्याः कृपयार्पितम् ।।२८७४।। तत्प्रभावात् त्वया पुत्रः, स्वयं नैकोऽपि लालितः । षड् हृता सप्तमोऽस्त्येष, राज्यं कुर्वन् नरायणः । । २८७५ ।। तं दुःकर्मप्रभावं सा, श्रुत्वा वैराग्यरङ्गिता । स्मृत्वातिमुक्तकाख्यात- मिच्छन्ती सुतमष्टमम् ।।२८७६ ।। गोविन्देनान्यदा पृष्टा, किमेवं मातरुन्मनाः । उवाचाजातपुत्रेव, सञ्जाततनयाप्यहम् ।।२८७७।। सुलसा तेऽग्रजान् भ्रातृन्, यशोदा त्वामवीवृधत् । परभृद्वनितेवाहं, नैकं सुतमलालयन् ।।२८७८ ।। ततो मातुस्तनूजार्थं, कृष्णेनाराधितः सुरः । नैगमैषी समक्षोऽभूत् पृष्टो माँतुः सुताप्तये ।। २८७९ ।। ऊचे देवः सवित्र्यास्ते-ऽष्टमः सूनुर्भविष्यति । यौवने किन्तु चारित्रं, ग्रहीष्यत्यन्तिके विभोः ।। २८८० ।। गते तस्मिन् सुरे प्रात-र्मातुराख्यदिदं हरिः । मातापि मुमुदे तेन, प्राप्तपुत्रेव तत्क्षणात् ।।२८८१ । । तदा च देवकीकुक्षौ, गजस्वप्नेन सूचितः । विन्ध्यभूमाविव गजो ऽवतीर्णः स्वर्गतः सुतेः ।। २८८२ ।। समयेऽसूत सा सूनुं, प्रतिबिम्बमिवाच्युतम् । तं गजसुकुमालाख्यं, प्रीत्या स्वयमलालयत् ।।२८८३।। अतीव वल्लभः सोऽभूत्, भ्रातुर्मातुर्विशेषतः । क्रमेण यौवनं प्राप, तैयोराग्रहतस्ततः ।।२८८४।। तनुजां द्रुमराजस्य, पर्यणैषीत् प्रभावतीम् ।
सोमाख्यां क्षत्रियाजां स, सोमशर्मद्विजात्मजाम् ।। २८८५ ।। युग्मम्
अन्यदा समवासार्षीत्, प्रभुस्तद्व्याख्यया गजः ।
प्रतिबुद्धः समं द्वाभ्यां, प्रियाभ्यां प्राव्रजत् सुधीः ।। २८८६।।
०ल्या २ ।। ५ ०ना १ ।। ० व्याचष्ट सुष्टुवाक् २.६-१० ।। ०२: ६.८-१० ।। १. कृष्णम् ।। है यदुनेत्राम्बुजार्यमा २,१-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org