SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २७७ श्रीदशवकालिकसूत्रम् नाम्ना देवयशःशत्रु-सेनौ वाचंयमोत्तमौ । । तावपि प्रतिलाभ्यैवं, प्रश्नयामास देवकी ।।२८६१।। दिग्मोहात् किं मुहुः प्राप्तौ ?, युवां किं वेति मे भ्रमः ? । किं वास्यां पुरि भक्ताद्यं, प्राप्नुवन्ति न साधवः ? ।।२८६२ ।। न दिग्मोहादिशङ्कात्र, कार्या षट् सोदरा वयम् । भद्दिलपुरवास्तव्य-सुलसानागयोः सुताः ।।२८६३ ।। धर्मं श्रुत्वा प्रभोः पार्श्वे, वयमादिष्महि व्रतम् । युग्मानि त्रीणि भूत्वा च, तवायाताः क्रमाद् गृहम् ।।२८६४ ।। ततश्चाऽचिन्ति देवक्या, कथङ्कारं षडप्यमी । सर्वथा कृष्णतुल्याङ्गा-स्तद्दलैरिव निर्मिताः ।।२८६५ ।। अतिमुक्तकसाधुर्मी, जीवदष्टसुतां पुरा । आचख्यौ तत्किमेते ते, सूनवो मत्तनूद्भवाः? ।।२८६६।। विचिन्त्यैवं. द्वितीयेऽह्नि, श्रीमन्नेमिजिनान्तिके । समवसरणे गत्वा, देवकी पृच्छति स्म तत् ।।२८६७ ।। तस्याः स्वाम्याह जीवन्तः, पुत्रास्ते नैगमेषिणा । सुलसाया मृतैः पुत्रैः, परावर्त्य समर्पिताः ।।२८६८।। एवं श्रीनेमिना ख्याते, हर्षादुत्प्रस्रवस्तनी । वन्दित्वा स्वसुतान् साधून, स्तौति स्म स्निग्घया गिरा ।।२८६९।। धन्या मेऽमी सुता येषां, संयमं गृह्णतां सताम् । श्रीनेमिपाणिपद्मोऽभू-च्छत्रवन्मस्तकोपरि ।।२८७० ।। मामेतदेव सञ्जात-मनिवृत्तिनिबन्धनम् । यन्नैकोऽप्यङ्कपर्यङ्क-क्रोडे क्रीडितवान् सुतः ।।२८७१।। नेमिनथोऽप्यथोवाच, मा स्म देवकि ! खिद्यथाः । फलमेतद्विजानीहि, पूर्वोपाजितकर्मणाम् ।।२८७२।। आगच्छन् मुक्तमर्यादः, पारावारोऽपि धार्यते । न तु कर्मपरीणामः, पूर्वजन्मविनिर्मितः ।।२८७३।। ०वं १० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy