SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २७६. श्रीतिलकाचार्यविरचितटीकायुतम् वत्स ! दुर्विनयादेते, मत्सुतास्त्याजिता भुवम् । भरतार्द्ध च भूः सर्वा, त्वदीयैव क्व यान्त्वितः ? ।। २८४८ ।। कृष्णोऽभ्यधाद् दक्षिणाब्धे-स्तटे गत्वा नवां पुरीम् । निर्माय पाण्डुमथुरा, तत्र तिष्ठन्तु ते सुताः ।।२८४९ ।। कुन्त्यागत्य तदाचख्यौ, पुत्रेभ्यस्तेप्यगुस्ततः । पाण्डुदेशे स्थितास्तत्र, तटेऽब्धेींवरा इव ।।२८५०।।. स्वस्य स्वसुः सुभद्राया, अभिमन्युस्तनूद्भवः । परीक्षिताख्यं तत्पुत्रं, न्यास हस्तिनापुरे हरिः ।।२८५१।। इतश्च रविवन्नेमिः, पादैः पृथ्वीं पवित्रयन् । आययौ भहिलपुरं, भद्राणामिव सेवधिम् ।।२८५२।। सुलसानागयोः पुत्रा, बभूवुस्तत्र षट् पुरे । . नैगमेषिमरुद्दत्ता, देवकीकुक्षिसम्भवाः ।।२८५३।। एकैकः कन्यकानां द्वा-त्रिंशतं परिणीतवान् । , श्रीनेमिव्याख्यया बुद्धाः, सर्वेऽप्याददिरे व्रतम् ।।२८५४ ।। द्वादशाङ्गभृतः सर्वे, सर्वे तद्भवसिद्धिकाः । व्यहार्षुः स्वामिना सार्दू, मूर्त्तः षोढेव संयमः ।।२८५५ ।। अन्यदा विहरन् स्वामी, श्रीनेमिरिकामगात् । सहसाम्रवणोद्याने, भगवान् समवासरत् ।।२८५६।। देवकीतनुजन्मानः, षट् ते षष्ठस्य पारणे । प्राविशन् द्वारिकापुर्यां, भूत्वा युगलिनस्त्रिधा ।।२८५७ ।। तेभ्योऽनीकयशोऽनन्त-सेनौ द्वौ देवकीगृहम् । प्राप्तौ तौ देवकी वीक्ष्य, कृष्णतुल्यावमोदत ।।२८५८।। सा प्रत्यलाभयद् भव्यै-मोदकैः सिंहकेशरैः । तयोः प्रयातयोरन्या-वागातां तत्सहोदरौ ।।२८५९।। अजितसेननिहत-शत्रू नाम्ना मुनीश्वरौ । तौ प्रत्यलाभयद् यावत्, तावदन्यावुपागतौ ।।२८६० ।। * प० १.३ ।। , प० १.३ ।। 0 ०श्चा० ६-१० ।। नो० ६.८-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy