________________
२७५
श्रीदशवैकालिकसूत्रम् तावद्गङ्गानदीं यूय-मुत्तरन्तः स्त सम्प्रति । द्वाषष्टियोजनपृथु, तोत्तीर्य मरुन्नदीम् ।।२८३६ ।। युग्मम् पर्यालोच्य मिथो नावं, प्रेषयन्न हरिं प्रति । तरी विना कथं गङ्गां, हरिरुत्तरतीक्ष्यते ।।२८३७ ।। इत्येकत्र क्वचित्तेऽस्थः, सुरस्रोतस्विनीतटे । कृतकृत्योऽथ गोपीन्द्रो-ऽप्युपगङ्गमुपागमत् ।।२८३८ ।। तत्रादृष्ट्वा तरी विष्णु-र्दोष्णैकेन महारथम् । सोश्वं दधे परेणाथ, प्रारेभे तरितुं पयः ।।२८३९ ।। अन्तर्गङ्गं परिश्रान्त-श्चिन्तयामास केशवः । समर्थाः पाण्डवा यत्तै-र्गङ्गोत्तेरे तरी विना ।।२८४० ।। गङ्गादेवी हरिं ज्ञात्वा, श्रान्तं स्ताघं ततो व्यघात् । विधैम्य तत्र तच्छेषं, सुखेनैवोत्ततार सः ।।२८४१।।
पप्रच्छ पाण्डवान् यूय-मुत्तीर्णा स्वर्णदी कथम् ? । ऊचुस्तेऽस्माभिरुत्तेरे, तरण्यासौ महानदी ।।२८४२।। तत्कथं प्रेषिता नासौ, तरण्युत्तारणाय मे । ते प्रत्यूचुर्बलं ज्ञातुं, यौष्माकं प्रेषिता न नौः ।।२८४३।। कृष्णोऽथ कृष्णलेश्यः स-नूचे तान् किमरेऽधमाः ! । बलं मम न विज्ञातं, द्रौपदीवालने तदा ।।२८४४।। इत्युक्त्वामर्दयत् कोपा-लोहदण्डेन तद्रथान् । ततोऽभूनगरं तत्र, रथमर्दननामकम् ।।२८४५।। कंसारातिस्ततश्चक्रे, पाण्डवान् देशताडितान् । सैन्यं समस्तमादाय, दारवती पुरीं ययौ ।।२८४६।। आख्यन् कुन्त्या यथावृत्तं, पाण्डवाः स्वपुरं गताः ।
कुन्त्यपि द्वारिकां गत्वा, जगाद भ्रातृजं निजम् ।।२८४७ ।। .व २ ।। १. नौकया ।। २. अश्वेन सह रथम् ।। ३. स्थलम् १० टि० ।। . ०श्रा० २ ।। 0 नः २-१० ॥ ४. देशपार १० टि० ।। त्यां ययुः पुरि १.३.४, ०त्यां ययौ पुरि ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org