________________
२७४ . श्रीतिलकाचार्यविरचितटीकायुतम्
तदानीं कपिलो विष्णु-रासीनः पर्षदि प्रभोः । शङ्खस्वनं समाकर्ण्य, सम्भ्रान्तः पृष्टवान् प्रभुम् ।।२८२४ ।। स्वामिन् ! किं कोऽपि नव्योऽत्र, निष्पन्नः केशवः पुनः । यदेष शङ्खनादोऽत्र, कर्णातिथिरभून्मम ।।२८२५ ।।
ततः प्रबन्धं साद्यन्तं, शङ्खस्वननिबन्धनम् । भगवान् कपिलस्याख्यत्, कपिलोऽप्येवमब्रवीत् ।।२८२६।। कृष्णस्यातिथ्यमाधातुं, तत्र यास्याम्यहं प्रभो ! । स्वाम्युवाच पुमांसोऽत्र, मिलन्त्येकत्र नोत्तमाः ।।२८२७ ।। निश्चये स्वामिनोक्तेऽपि, कृष्णालोकनकौतुकी । कपिलः प्राप्तवानब्धे-स्तटे जङ्घाललीलया ।।२८२८ ।। मध्येसमुद्रं कृष्णस्य, गच्छतः पश्यति स्म सः । शक्रचापसगोत्राभान्, पञ्चवर्णान् रथध्वजान् ।।२८२९ ।। विष्णुः कपिलनामाहं, दिदृक्षुस्त्वामिहागमम् । , तद् वलस्वेत्यक्षराणि, शङ्खस्य ध्वनिनाभ्यधात् ।।२८३० ।। आयाता भूयसी भूमि, सँङ्गः शब्देन नावभूत् । इत्यक्षरोगिरं पाञ्च-जन्यं कृष्णोऽप्यपूरयत् ।।२८३१ ।। चलितः कपिलो विष्णु-स्तच्छङ्खध्वनितश्रुतेः । . गत्वाथामरकङ्कान्तः, सकोपः पद्ममभ्यधात् ।।२८३२।। रे दुरात्मन्न जानासि, विभागं धर्मपापयोः । परदारापहारं यत्, कृतवानसि दुर्मते ! ।।२८३३।। तमथान्यायिनं पापं, देशान्निर्वास्य तत्क्षणात् । अस्तेर्भूवत् सुतं तस्य, तत्साम्राज्ये न्यवेशयत् ।।२८३४ ।। पारेनीराकरं यातः, केशवः स्माह पाण्डवान् ।
आपृच्छ्य सुस्थितं मार्ग-प्रदं यावदुपैम्यहम् ।।२८३५ ।। * ०ध्वनि० २ ।। १. मृग १० टि० ।। । शङ्ख० २.४.५ ।। २. आवयोः १० टि० ।। • तावुभौ २ ।। सख्य० १.१० ।। है आस्तभूर्व० ५ ।। ३. धातुवत् १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org