________________
श्रीदशवैकालिकसूत्रम्
२७३ अहं जिष्णुर्न पद्मोऽय-मित्युक्त्वा कंससूदनः । अभ्यमित्रोऽभवत् तत्र, शङ्खमापूरयद् रणे ।।२८११ ।। पाञ्चजन्यध्वनेः पद्म-सैन्यत्र्यंशः प्रणेशिवान् । सिंहनादादिवोद्दामात्, कुरङ्गकुलमाकुलम् ।।२८१२।। जीवां टङ्कारयामास, शार्णी शार्ङ्गस्य तद्ध्वनेः । बलत्र्यंशः पुनः पाद्मः पद्मनालमिवात्रुटत् ।।२८१३।। शेषत्र्यंशबलान्वीतः, पद्मः सङ्ग्रामसद्मनः । पुर्याममरकङ्कायां, प्रणश्य प्राविशद् भयाद् ।।२८१४ ।। द्वाराणीव कदर्यस्य, गोपुराणि प्यधापयत् । कृष्णोऽपि कृष्णवर्मेव, क्रोधेन प्रज्वलन्नधः ।।२८१५ ।। . रथादुत्तीर्य दोर्वीर्य-निर्जीताशेषराजकः । भुवं पार्णिप्रहारेण, कम्पयामास केशवः ।।२८१६ ।। युग्मम् प्राकारात् कपिशीर्षाणि, पेतुः सुभटशीर्षवत् । देवकुलाग्रग्रावाणो-ऽपतन् ब्रह्माण्डखण्डवत् ।।२८१७ ।। शैलंवत् कुलिशाघातात्, प्रासादाः प्रापतन् पुनः । मूर्छिता नागरास्तत्र, कल्पान्तस्येव शङ्कया ।।२८१८ ।। क्षम्यतां क्षम्यतां देवि !, कीनाशादीव केशवात् । रक्ष रक्षेति वाक् पद्मः, शरणं द्रौपदीमगात् ।।२८१९ ।। सोचे प्रणम्य साष्टाङ्गं, केशवं मां त्वमर्पय । त्वदेकशरणोऽस्म्येष, मां त्रायस्वेति तं वदेः ।।२८२०।। . इत्युक्ते स तथा सर्वं, चक्रे चक्री मुमोच तम् । द्रौपदीमार्पयत् पण्डु-सुतानामथ केशवः ।।२८२१ ।। यथा तेनैव तैः सार्धं, ववले मोदमेदुरः । सिद्धसाध्यो हि को न स्या-दमन्दानन्दतुन्दिलः ।।२८२२।।
चम्पायां निःप्रकम्पायां, पूर्णभद्राभिधे वने । तदासीत् समवसृतस्तीर्थकृन्मुनिसुव्रतः ।।२८२३।। व त्रस्यत्कु० २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। . नथ २.३.५, ०निव ६:९ ।। ० शैला इव पवे_तात् २.६-१० ।। १. यमात् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org