________________
२७०
श्रीतिलकाचार्यविरचितटीकायुतम् उत्थिताः पाण्डवाः प्रात-रदृष्ट्वा द्रौपदीं गृहे । सर्वत्रान्वेषयन्ति स्म, क्रियासमभिहारतः ।।२७७४ ।। तेद्वार्तापि परं प्रापि, न कुत्रापि ततो हरे : । तन्मात्राख्यायि यन् मूढे, क्षुतेऽर्कः स्मर्यते जनैः ।।२७७५ ।। सर्वत्राप्यथ हस्यन्ते, वीराः केटरि पाण्डवाः । एकामपि न पत्नी स्वा-मभूवन् रक्षितुं क्षमाः ।।२७७६ ।। हरिश्चाचिन्तयन्नार्द्ध-भरते कोऽपि मेऽधिकः । द्रौपदी केन जहे त-दित्यास्ते यावदुन्मनाः ।।२७७७ ।। नारदस्तावदायातो-ऽन) स्वकृतमीक्षितुम् ।। पृष्टः कृष्णेन सत्कृत्य, द्रौपदी क्वाप्यदृश्यता ।।२७७८ ।। नारदः स्माह नो युक्ता, स्त्रीकथा ब्रह्मचारिणाम् । ह्यो द्वीपे धातकीखण्डे-ऽमरकङ्कापुरीं परम् ।।२७७९।। आगच्छं तत्र पद्माख्य-क्ष्मापस्यान्तःपुरान्तरे । , अद्राक्षमेकां द्रौपद्याः, सदृक्षां हरिणेक्षणीम् ।।२७८०।। इत्युक्त्वा नारदोऽन्यत्र, जगामोत्पत्य पक्षिवत् । दध्यौ हरिरनर्थोऽयं, कारितो नारदर्षिणा ।।२७८१।।
ऊचे पाण्डुसुतान् विष्णु-द्रौपदी पद्मभूभुजा । छद्मनापहता सुप्ता, रावणेनेव जानकी ।।२७८२।। सीतां राम इवानेष्ये, तामब्धेः परतोऽप्यहम् । कर्तव्यः खेदलेशस्तद्, युष्माभिर्न मनागपि ।।२७८३।। सनद्धसकलानीक-स्ततः कृष्णः सपाण्डवः । गत्वा मागधतीर्थेऽब्धे-स्तटे सैन्यं न्यवेशयत् ।।२७८४ ।। अवोचन् पाण्डवाः कृष्णं, प्रभो ! लवणवारिधिः । अत्यन्तभैरवाकारः, संसार इव दुस्तरः ।।२७८५।। दिव्ये योजनलक्षे द्वे, मानुष्याश्चाष्टकोटयः ।
विस्तारो विद्यतेऽमुष्य, शिखा चाभ्रङ्कषा पुनः ।।२७८६।। १. तस्याः १० टि० ।। २. आश्चर्यसूचकोऽव्ययः ।। * त्वां मल्लवन् ६-१० ।। . ०शोऽपि २.६-१० ।। ३. १६०० गाउ अथवा ४०० योजनका १ दिव्ययोजन मालुम होता हे १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org