________________
२६९
श्रीदशवैकालिकसूत्रम् न चेन्मां मंस्यते कान्तं, तथाप्येतद् भविष्यति । तद्दर्शनाद् दृशोस्तद्वाक्-श्रवणात् कर्णयोः सुखम् ।।२७६१ ।। ततः स तस्य निर्बन्धाद्, गत्वा गजपुरे सुरः । दत्वावस्वापिनीं तेषां, द्रौपदी शयितां सतीम् ।।२७६२ ।। हत्वानीय समास्य, निजं स्थानं ययौ सुरः ।। प्रातः प्रबुद्धास्तं लोक-मनालोक्याकुला सती ।।२७६३ ।। दध्यौ सा किमयं स्वप्न: ?, किं वेन्द्रजालमीदृशम् ? । ज्ञातं देवेन केनापि, हृत्वा नीतास्मि निश्चितम् ।।२७६४।। इति चिन्तापरां पद्म-स्तामूचे विधुरासि किम् ? । मा भैषीस्त्वं कुतोऽप्यत्र, शङ्कां कामपि मा कृथाः ।।२७६५ ।। आनायिता मयासि त्वं, देवि ! देवस्य पार्श्वतः ।
द्वीपोऽयं धातकीखण्डः, क्षेत्रं भरतनामकम् ।।२७६६।। पुरी चामरकङ्केय-मत्राहं पृथवीपतिम् । भुक्ष्व भोगान् मया सार्धं, सर्वस्वस्वामिनी भव ।।२७६७।। सप्ताङ्गमपि राज्यं मे, तवायत्तमिदं प्रिये ? । अन्तःपुर्योऽपि चैता मे, कुम्भदास्यस्तवाखिलाः ।।२७६८।। इति तद्वचनं श्रुत्वा, द्रौपद्येवमचिन्तयत् । एकाकिन्यबला व्योम्नः, पतितेवास्म्यरक्षिका ।।२७६९।। मा मे शीलव्रतं भाङ्क्षीद्, बलादेषोऽधुना कुधीः । प्रत्युत्पन्नमतिद्रौप-धदात् तस्येदमुत्तरम् ।।२७७०।। मासस्यैकस्य मध्ये चेन्, मदीयः कोऽपि नेष्यति । ततस्त्वया मया सार्द्धं, वाच्यमर्वाग् न किञ्चन ।।२७७१ ।। मेने पद्मोऽपि तद्वाचं, ततः कोऽत्रागमिष्यति? । मानुषाणामसञ्चारो, लवणोदधिरन्तरे ।।२७७२।। मासान्तेऽपि न भोक्ष्ये-ऽहमप्राप्तपतिसङ्गमा ।
करिष्येऽनशनमिति, चक्रे द्रौपद्यभिग्रहम् ।।२७७३।। * ततः २.६-१० ।। , थि० २.४-१० ।। १. वेश्यासमाः आज्ञाधीनाः ।। 0 ०त्य यत् १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org