________________
श्रीदशवैकालिकसूत्रम्
एवं चतुर्विधः सङ्घः, तत्रैवाह्नि प्रभोरभूत् । चतुर्यामः साधुधर्म, इव सिद्धिसुखप्रदः ।। २७३७ ।।
अथ प्रथमपौरुष्यां, स्वामी व्याख्यां विसृष्टवान् । वरदत्तः करोति स्म, गणभृत् तदनन्तरम् ।।२७३८।। ततः प्रभुं नमस्कृत्य, शक्राद्यास्त्रिदिवौकसः । कृष्णाद्याः पृथवीनाथाः, सर्वे जग्मुर्यथागतम् ।।२७३९।। सदा सानिध्यकृद्यक्षो, गोमेधः स्वामिशासने । अम्बिकाम्बैव सङ्घस्य, तथा शासनदेवता ।।२७४०।। एवं तत्र चतुर्मासी, निर्वाह्य त्रिजगत्पतिः । राकानन्तरमन्यत्र, व्यहार्षीत् प्रतिपत्तिौ ।। २७४१ ।।
इतश्च हास्तिनपुरे, मुदिताः सन्ति पाण्डवाः । रममाणा वारकेण, द्रौपदीं कृष्णबन्धवः ।।२७४२ ।। नारदर्षिः कुतोऽप्यागात्, द्रौपद्याः सदने तदा । मिथ्यादृग्वेशमालोक्य, सत्करोति स्म सा न तम् ।।२७४३।। नारदो दध्यिवानेतत्, सच्चक्रे द्रौपदी न माम् । पञ्चानां वल्लभास्मीति, रूपसौभाग्यगर्विता ।। २७४४ ।। तदिमां क्वापि सापत्ये, पातयामीत्यचिन्तयत् । परं कृष्णभयादत्र, कर्तास्याः कोऽपि नाप्रियम् ।।२७४५ ।। धौतकीखण्डभरते, जग्मिवान् नारदस्ततः ।
तत्रास्त्यमरकङ्केति, पुरी सर्वपुरोत्तमा ।।२७४६ ।। तस्यां पद्मः श्रियां सद्म, स्त्रीलोलः पृथवीपतिः । पारापत इवात्यन्त-मतृप्तो विषयेषु सः ।।२७४७ ।। गच्छति स्म ततस्तत्र, नारदः स्वार्थसिद्धये ।
अभ्युत्थानासनाद्यैस्तं, स सत्कृत्यातिभक्तितः ।। २७४८।।
०धि० २.४-९ ।। चैव २-९ ।। ह० ८ ।। ०ध्य० ६-९ ।। इतः त्रयः श्लोकाः ६.८.९ प्रतिषु न सन्ति, इतः त्रिषु श्लोकेषु स्थानेषु अयं सार्द्धः श्लोकः ७ प्रतौ जगाम धातकीखण्डभरते नारदस्ततः । तत्र चम्पायुषो विष्णोः कपिलाख्यं ससेवकम् ।। पुर्यां सोऽपरकङ्कायां, स्त्रीलोलं पद्ममभ्यगात् ।। + ०थि० २.४ ।।
Jain Education International
२६७
For Personal & Private Use Only
www.jainelibrary.org