________________
२६६ . श्रीतिलकाचार्यविरचितटीकायुतम्
विभोळख्यामिमां श्रुत्वा, वरदत्तः क्षितीश्वरः । प्राप्तसंसारवैराग्यं, व्रतादानोत्सुकोऽभवत् ।।२७२४ ।। तदा च केशवोऽप्राक्षीत्, नत्वा त्वय्यनुरागवान् । सर्वोऽप्यत्र विशेषस्तु, राजीमत्याः कुतः प्रभो ! ।।२७२५ ।। आमूलचूलं श्रीनेमिः, सर्वं वृत्तमचीकथत् ।। सबन्धो मेऽनया सार्द्धं, ततोऽष्टभविकोऽभवत् ।।२७२६ ।। . वरदत्तनृपेन्द्रोऽथ, प्रभुमेवं व्यजिज्ञपत् । भवाम्भोधिं परिव्रज्या-तरण्या तारय प्रभो ! ।।२७२७ ।। इति विज्ञप्तवन्तं तं, प्रभुभूपमदीक्षत । क्षत्रियाणां सहस्रे द्वे, अनुप्राव्रजतां तदा ।।२७२८ ।। धनदेवधनदत्तौ, भ्रातरौ प्रथमाद् भवात् । . मन्त्री विमलबोधश्चा-पराजितभवात् पुनः ।।२७२९ ।। प्रभुणा सह ये भ्रान्ता, भवेऽस्मिंस्तेऽभवन् नृपाः ।। तत्रागताः प्रसङ्गात् ते, श्रुत्वा राजीमतीभवान् ।।२७३० ।। सञ्जातजातिस्मरणा, भवभ्रमणभीरवः । . तदैव स्वामिहस्तेन, तेऽपि दीक्षां प्रपेदिरे ।।२७३१।। त्रिभिर्विशेषकम् तैः समं वरदत्ताद्यै-स्तत्त्वप्रश्ने कृते प्रभुः । उत्पादविगमध्रौव्य-त्रिपदी प्रत्यपादयत् ।।२७३२।। त्रिपद्या अनुसारेण, द्वादशाङ्गी व्यधायि तैः । एकादशा गणाध्यक्षाः, स्थापिताः स्वामिनाऽथ ते ।।२७३३।। भूरिकन्यापरिवारां, यक्षिणी राजपुत्रिकाम् । परिव्रज्याह्नि तत्रैव, प्रभुश्चक्रे प्रवर्तिनीम् ।।७२३४ ।। दशार्हा उग्रसेनश्च, रामदामोदरावुभौ । प्रद्युम्नाद्याः कुमाराश्च, श्रावकाः स्वामिनोऽभवन् ।।२७३५ ।। शिवारोहिणिरुक्मिण्यो, देवक्याद्याश्च योषितः ।
जगृहुः स्वामिनः पार्श्वे, श्राविकाधर्ममुज्ज्वलम् ।।२७३६ ।। * श्रीनेमेर्देशनां २, श्रीनेमिदेशनां ६-१० ।। . ०ण्यौ ६.७.९.१० ।।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org