________________
२६४
श्रीतिलकाचार्यविरचितटीकायुतम्
रटन्ती कटुवाचाटा, तटस्था चास्ति राक्षसी । स्थास्यस्यत्र कियत्काल-मरे ! दुर्ग इव स्थितः । । २७०० ।। दत्वा ते मूर्धनि पदं, पातयिष्याम्यहं रदान् ।
भक्ष्यामि जानुनी चेति, मम शक्तिं न वेत्सि किम् ? ।।२७०१।। अनाप्नुवन् करीन्द्रस्तं, क्रुद्धो न्यग्रोधवरुधम् ।
२
करेणाताडयत् कम्प-रुजेवाकम्पत
।।२७०२ ।।
हस्तिहस्ताहतेस्तत्र, मधुच्छत्रात् समुत्थिताः । मक्षिकास्तं विलग्नास्ता-स्ताभिः पक्षीव सोऽभवत् ॥ २७०३।। मक्षिकादंशदुःखार्त-श्चलदङ्गतया तदा । सदर्पसर्पफूत्कारै-र्विष्वग्वंशस्वनैरिव ।। २७०४ ।।
*३
कुरेंदन् मूषकाराव-तालतालेन ताण्डवम् ।
कूपरङ्गे ननर्त्तासौ, प्रौढनर्तकवत् पुमान् ।।२७०५ ।। युग्मम् धूनितान् मधुमण्डाच्च, गलिता मधुबिन्दवः । भाँले ततश्चिरान्नासा-वंशेनायान्ति तन्मुखे ।।२७०६ ।। सुधामपि मुधा मेने, मधुबिन्दून् लिहन् स तान् । सुखलेशकृतावेशो, न प्राक्क्लेशमजीगणत् ।।२७०७ ।।
तदा विमानमारूढ-स्तत्रागात् कोऽपि खेचरः । पश्यत्यधः प्रिया तस्य, तं नरं प्रेक्ष्य कूपगम् ।।२७०८।। सा प्रियं प्राह हे नाथ !, पुमानुद्ध्रियतामयम् ।
इतो महत्तराद् दुःखात्, पङ्कादिव जरद्गवः ।। २७०९ ।। विमानमवतार्याथ, खेचरस्तं नरं जगौ ।
,
पतितोऽसि महाभाग !, महादुःखे ततोऽधुना ।।२७१० ।। अधिरोह विमानेऽत्र, स्थाने त्वामीप्सिते नये ।
दुःखितं त्वां प्रियाख्यात-मुद्धर्तुमहमागमम् ।।२७११।।
१. लता १० टि० ।। २. वटशाखा ।। कुरु० १.४.६- १० ।। ३. कुत्सितं त्रोटयन् ।। ५ चिराचिराद् भालगता, निपतन्ति स्म तन्मुखे २.६ १० ।। ० ० श्यन्त्य० २.६-९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org