________________
श्रीदशवैकालिकसूत्रम् ।
२६३ ततो भवसुखे लग्ना, मधुबिन्दूपमे जनाः । मैवं तिष्ठन्तु शृण्वन्तु, मधुबिन्दुकथामिमाम् ।।२६८८।।
दरिद्रः पुरुषः कोऽपि, धनायन प्रस्थितो गृहात् । पारावार इवापारे, कान्तारे निपपात सः ।।२६८९ ।। तत्र द्विपं ददर्शकं, प्रक्षरन् मदनिर्झरम् । गर्जन्तं श्यामलं तुझं, चलन्तमिव पर्वतम् ।।२६९० ।। सिन्धुरोऽपि समालोक्य, तमदृष्टचरं नरम् । वन्यत्वान्मानुषं गन्ध-मसहिष्णुमधावत ।।२६९१।। नमयंश्चरणन्यासैः, शुषिरामिव मेदिनीम् । सरलीकृतशुण्डाग्रः, केनाप्याकृष्यमाणवत् ।।२६९२ ।। नर: पलायितस्तस्मात्, हस्तात्तनिजजीवितः । जराजीर्ण इव पुमान्, पदे पदे प्रतिस्खलन् ।।२६९३।। स नश्यन्नग्रतोऽद्राक्षीत्, जीर्णकूपं जिजीविषुः । ततो झम्पां ददौ तत्र, प्राणभीमहती हि भीः ।।२६९४।। कूपकण्ठतटोद्भूत-वटशाखावलम्बिनि । वटपादे विलग्नोऽभाद्, रज्जुबद्धघटीनिभः ।।२६९५।। अधःप्रसारितमुखं, ददर्शाजगरं गुरुम् । कूपस्यान्तः कूपमिव, दुरालोकं भयङ्करम् ।।२६९६ ।। चतुर्दिशं महाभोगा-लुलज्जिह्वाद्वयानहीन् । हर्तुं प्राणभृतां प्राणान्, यमसन्दंशकानिव ।।२६९७ ।। वटपादस्य मूलं च, मूषको श्यामलोज्वलौ । दन्तायैः दारयन्तौ स्त-स्तेजितैः क्रकचैरिव ।।२६९८ ।। । हस्ती प्रसारयन् हस्तं, जिघृक्षुस्तं नरं प्रति ।
परं शक्नोति नादातुं, निपुण्य इव शेवधिम् ।।२६९९।। न्य ५.६.८-१० ।। १. दृष्टभिन्नं सभयचरम् १० टि० ।। • स्खलन् स्खलन् पदे पदे २, पादे पादे स्खलन् विला ६-१० ।। - तत्पादपस्य ६.१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org