SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ श्रीतिलकाचार्यविरचितटीकायुतम् स्वामिन् ! भवग्रामटिकानिवासी, मुहुर्मुहुवमकरग्रहेण । निपीडितो मोहमहीभृताह-मितस्ततो मोचय मां कथञ्चित् ।। २६७८।। उपजातिः उल्लङ्घितो गोष्पदवद् भवाब्धि - स्त्वया प्रभो ! तत्र नु मां पतन्तम् । अनुद्धरन् नाथ ! कथं मम त्वं, बन्धुस्ततो बान्धवतां विधेहि ।।२६७९।। उपजातिः बाल्याद् भवच्चित्रचरित्रचित्रां, मत्तिभित्तिं भगवन् ! समेत्य । तारुण्यवर्षासमयाप्तमूर्च्छः, कन्दर्पजीमूतरसः प्रमार्ष्टि ।। २६८० ।। इन्द्रवज्रा कुले समानेऽप्यहमग्रजोऽपि, वृथाभवं चम्पकपत्रकल्पः जातोऽसि तत्पुष्पमिवानुजोऽपि, त्वं तु प्रभो ! विश्वशिरोवतंसः ।।२६८१।। उपजातिः श्री श्रीपतिस्तव पदद्वयमुग्रकान्ति २६२ . लब्धा जगत्त्रयपते ! विमलावलोक ! । ३ शूरः सुदर्शननिरस्तभवोद्भवारिः, कृत्वा स्तवं प्रणमति स्म गताघभूतिः ।। २६८२ ।। वसन्ततिलका इलातलमिलन्मौलिः, स्तोत्रान्ते त्रिजगत्प्रभुम् । नत्वा न्यविशतोपेन्द्र-मुपेन्द्रः प्रीतमानसः ।।२६८३ ।। तो दुस्तरसंसार-पारावारतरसमाम् । A प्रारेभे भगवान् व्याख्या-मिति सत्त्वानुकम्पया ।। २६८४ ।। भ्रमन्तोऽत्र भवेनादौ, मानुषं जन्मं दुर्लभम् । चिन्तामणिमिवासाद्य, मा स्म नैषुर्निरर्थकम् ।।२६८५ ।। साधुश्राद्धविभेदेन, द्विविधं धर्ममुत्तमम् । अङ्गीकुर्वन्तु भविनः, सिद्धिसौख्ये यदि स्पृहा ।। २६८६ । । धर्मादिहपरौ लोकौ, धर्मः सर्वार्थसिद्धिदः । धर्म एव हि सिद्धेश्च, पारंपर्येण कारणम् ।।२६८७ ।। र्मु १ ।। ५ ० भीरु० २.६-१० अयं मूलपाठः १० टिप्पण्यामपि ।। ० तत्र ९ ।। १. वृद्धिः २ टि० ।। २. श्रीकृष्णः ।। ३. यादवः ।। * ततश्च भगवान्नेमिः, करुणारससागरः । भव्यान् भवाब्धेरुद्ध, वरव्याख्या वरया २.६-१० ।। * सद्ध्यानसन्धनां शुद्धां त्रुटन् संसारबन्धनाम् । प्रारेभे देशनां स्वामी, सिद्धिसौधप्रवेशनाम् २.६१० ।। + चतुर्भिवदनैः स्वामी, धर्ममाख्यचतुर्विधम् । चतुर्गतिनिषेद्धारं, नेतारं पञ्चमीं गतिम् २.६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy