________________
श्रीदशवैकालिकसूत्रम्
२६१ उद्दामधामोत्तमयौवनाख्य-ग्रामे वसन्तं त्रिजगत्प्रभो ! माम् । उपद्रवन् मन्मथाद्रिकोऽय-मनार्यवयः कथमेष वार्यः ? ।।२६६७ ।। उपजातिः मध्येभवाम्भोनिधिमार्गमावि-श्चकार चित्रं चरणेन गम्यम् । भव्याङ्गिनो येन सुखेन यान्ति, सौव्याकरे मोक्षपुरेऽधिवस्तुम् ।।२६६८ ।। उपजातिः कृशानि कर्माणि करोति पुष्टा-न्यसौ ममात्मा यदनात्मनीनः । पञ्चाननं कौननगं रुजाभि-ग्रस्तं प्रशस्तं कुरुते तदुच्चैः ।।२६६९।। उपजातिः अस्मादृशान् मोचय मोहसत्क-संसारकारागृहतः स्थितिज्ञः । सम्प्रत्यऽशेषस्य जगत्त्रयस्य, साम्राज्यवान् नाथ! यतोऽभवस्त्वम् ।।२६७० ।। इन्द्रव्रज्रा साग्रे ने गव्यूतिशतद्वये ते, हन्ता भवेत् कस्यचनापि कोऽपि । हन्ये कषायैर्विषयैस्तथाहं, ततः प्रभो! त्वं किमुपेक्ष्यसे माम् ! ।।२६७१।। उपजातिः अहं स्वपुण्यद्रविणानुमानतः, परार्ध्यमध्याघमजन्मवेश्मसु । उवास संसारपुरे पुरा प्रभो ! , महोदयाप्तिर्न परं ममाभवत् ।।२६७२।। वंशस्थविलम् यावद् भवाब्धौ जलजन्तुतन्तु-श्चित्तद्विपं न क्षिपति स्मरो मे । त्राणाय तावजलकान्तरत्न-देश्यं प्रभो ! तस्य दिशोपदेशम् ।।२६७३।। इन्द्रवज्रा निशेषदोषव्यतिसङ्गमुक्ते, ये नाथ ! दोषं त्वयि पोषयन्ति । कर्पूरपूरे कुमुदेन्दुगौरे, ते कालिमानं कुदृशो दिशन्ति ।।२६७४।। इन्द्रवज्रा समूलमुन्मूलितबोधपङ्कजं, विपुण्यहंसं मम नाथ ! मानसम् । करोत्यखर्वः स्मरवारिकुञ्जरः, कथं विमथ्यस्तदसौ सुदुर्धरः ।।२६७५ ।। वंशस्थविलम् अपारसंसारमहार्णवान्तरे, श्रेयः स्वमादाय कषायतस्करैः । नृजन्मपोलादवतार्य निकृपैः, प्रक्षिप्यमाणं जिन! रक्ष रक्ष माम् ।।२६७६ ।। उपजातिः मदान्धमोहद्विपरागरोष-दन्ताभिघातेन निपीड्यमानम् । स्वामिन् ! मृगेन्द्रासनमाश्रितोऽपि, न त्रायसे किं निजसेवकं माम्?।।२६७७ । ।उपजातिः मुवनाधिनाथ १.३-५. ।। १. गामडियो भाषा० ।। . ०तीर्थ० २ ।। चरणैरग० ६-१० ।। २. पादेन पक्षे चरित्रेण ।। . काननवासिनं रुजाग्रस्तं २.६-१० ।। तदेषः २.६-१० ।। + राज ३-५ ।। . ज्ञाः १ 10 च ६-१० ।। ३. कोइपण कोइनो पण मारनार थतो नथी ! इति भाषायाम् ।। ४. उत्तम० ।। ५. मलकान्तमणिसदृशम् ।। ६. चित्तस्य ।। * पङ्क २.६-९ ।। ७. विगतपुण्यहंसः ।। . कुर्वत्र० २.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org