________________
२६०
श्रीतिलकाचार्यविरचितटीकायुतम् दशापि च दशार्हास्ते, मातरों भ्रातरस्तथा । कोटिसङ्ख्याः कुमाराश्च, सर्वमन्तःपुरं तथा ।।२६५५ ।। सहस्राः षोडश क्षोणी-भृतां तैरखिलैर्वृतः । उद्यानं जग्मिवान् स्वामि-पादपद्मपवित्रितम् ।।२६५६।। समवसरणासन्ने-ऽवतीर्य गजराजतः । विमुच्य राजचिह्नानि, तीर्थनाथमुपागमत् ।।२६५७।। . कोशीकृतकराम्भोजः, प्रफुल्लीकृतलोचनः । रोमाञ्चकञ्चकव्याजाद्, दर्शितान्तःस्थभावनः ।।२६५८।। समृद्धिं स्वामिनो वीक्ष्य, प्राशंसदिति केशवः । ' न चक्रिणो न शक्रस्या-प्यहो श्रीरियमद्भुता ।।२६५९।।
ततः प्रदक्षिणीकृत्य, नुत्वा शक्रस्तवेन च ।। अन्तरङ्गेण रङ्गेण, स्तोतुमारभत प्रभुम् ।।२६६०।। . सिद्धाञ्जनानीव तवाङ्गभासः, शुभात्मनां लोचनगोचरं गतः । अतुल्यकल्याणनिधानमाप्तुं, क्रमागतात्मीयभवौकसो भुवः ।।२६६१ ।। उपजातिः अग्रे समग्रैः करणैर्युतानि, पुराणि सार्द्ध विषयैश्च भूरिशः । भुक्तानि मोहप्रभुशासनेन, बभूव पूजितभुक् परं प्रभो ! ।।२६६२ ।। उपजातिः यत्रापि कुत्रापि यथा तथापि, त्वमेकदापि स्वपदप्रदानात् । प्रसीद मे नूतनसेवकस्य, यथाच्युतश्रीरचिराद् भवामि ।।२६६३।। युग्मम्। उपेन्द्रवज्रा अनन्तजन्तूद्वमितासु पुद्गल-श्रेणीषु कुर्वन् परिवर्तनानि । उच्छिष्टभुक् काक इवाभवं विभो !, ततो ममैतद् विरहं विधेहि ।।२६६४ ।। उपजातिः क्षित्वेश ! मुषास्विव मां कुयोनि-ष्वशीतिलक्षासु चतुर्युतासु । दुःखाग्निना तापय मोहवादी, कुभावनातो रसवन्नसिद्धः ।।२६६५ ।। उपजातिः कर्मानलध्मातमदात्मलोह-गोलं ज्वलन्तं कृपया कृपालो ! ।
प्रसीद निर्वापय वाद्विपञ्चा-शत्काख्यसञ्चन्दनशीकरण ।।२६६६।। उपजातिः *रौ २ ।। . ना ६-१० ।। 0 नः पश्यन् कौतुकोदञ्चितेक्षणः २.६-१० ।। ०क्ष० १-४.६.१० ।। है न० २. ।। १. इन्द्रियैः ।। २. शरीराणि ।। ३. उंदरडी इति भाषा० ।। ४. तापयामास, मुषाणरत्नानिवत् ३. टि० ।। ५. बावनाचन्दन इति भाषायाम्।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org