________________
२५५
श्रीदशवकालिकसूत्रम् प्रसन्नं स्वगृहासन्न-मायान्तं वीक्ष्य नेमिनम् । पुनर्नवीभूतशुचा-मूर्च्छद् राजीमती मुहुः ।।२५९४ ।। रैवतस्यान्तिकोत्तंसं, सहस्रामण वनम् । भद्रशालवनं मेरो-रिव नेमिर्ययौ तदा ।।२५९५ ।। गलित्वा तत्र जम्बूनि, पतितानि भुवं बभुः । श्रीनेमिहतकन्दर्प-पत्नीनेत्राश्रुबिन्दुवत् ।।२५९६।। राजीमती परित्यज्य, स्वामिना गृह्णता व्रतम् । सभृङ्गकेतकव्याजात्, कामकीर्तिः कलङ्किता ।।२५९७ ।। स्मरः श्रीनेमिनाक्रान्तो-ऽमुञ्चत् पञ्चशरानिव । उत्फुल्लमालतीपुष्प-पत्रिकापञ्चकच्छलात् ।।२५९८ ।। दृष्ट्वाम्भोदद्युतिं नेमि, विस्फूर्जत्तूर्यगर्जितम् । उत्केका उत्कलापाश्च, केकिनस्ताण्डवं व्यधुः ।।२५९९।। निदाघतापेन विमूर्छिताङ्गा, धाराकदम्बाः किल पूर्वमासन् । द्रष्टुं प्रभुं वारिभृताभिषिच्य, धाराम्भसेवेह कृता विमूर्छाः ।।२६०० ।। उपजातिः
तत्रोद्यानं प्रविश्याथ, नेमिनाथस्तदा मुदा । उत्तीर्य शिबिकामध्याद्, भवमध्यादिवाचिरात् ।।२६०१ ।। त्रिजगद्भूषणं नेमि-भूषणान्यत्यजत् तदा । केशवस्तान्युपादत्त, शेषामिव जगत्प्रभोः ।।२६०२।। निर्वासितस्य प्रभुणा, तदा मोहस्य गच्छतः । वस्त्रत्यागापदेशेन, तच्छायेव तेमन्वगात् ।।२६०३।। आजन्मदिवसान्नेमि-गते वर्षशतत्रये । पूर्वाह्ने श्रावणश्वेत- षष्ठयां चित्रागते विधौ ।।२६०४ ।। उच्चखान कचान् शीर्षाद्, दुःकर्माणीव मूलतः ।
शक्रो रत्ननिधायं तान, न्यधत्त क्षीरनीरधौ ।।२६०५ ।। युग्मम् नम् ६-१० ।। १. प्रावृषेण्यकदम्बभेदः १० टि० ।। २. विगतमूर्छाः ।। . ०ने ६-१०. ।। ३. व्याजेन ।। ४. वन० ।। ५. मोहम् ।। - वक्षसः २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। * ०० ५, न्य० ६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org