________________
२५४ . श्रीतिलकाचार्यविरचितटीकायुतम्
श्रीमान्नेमिः स्वहस्तेन, ददौ स्वर्णश्रियं मुदा । समुद्रविजयाद्याश्च, लोचनाभ्यां पुनः शुचा ।।२५८२।। राजीमत्याः प्रतिज्ञां तां, जानानोऽपि जिनो जनात् । ज्ञानत्रयादपि परं, नैव मोहेन गञ्जितः ।। २५८३।।
कृते दीक्षाभिषेकेऽथ, शक्राद्यैर्नाकिनायकैः । नाम्नोत्तरकुरुरत्न-शिबिकाध्यास्यतार्हता ।।२५८४।। उदूढा प्रथमं मत्र्य-स्ततोऽसौ देवदानवैः । अहं प्रथमिकाव्यग्रै-रत्युग्रानन्दमदुरैः ।।२५८५ ।। शक्रेशानौ प्रभोरग्रे-ऽभूतां चामरधारिणौ । सनत्कुमारदेवेन्द्र-च्छत्रधरोऽभवत् पुनः ।।२५८६।। माहेन्द्रो देर्पणं दधे, पूर्णकुम्भं च लान्तकः । ब्रह्मेन्द्रः करवलं तु, लोहरक्षार्थमन्तिके ।।२५८७।। स्वस्तिकं च महाशुक्रो, भद्रासनमथाष्टमः । श्रीवत्सं नवमो नन्द्या-वर्तं दशमवासवः ।।२५८८।। . मङ्गलार्थं पुरो भर्तु-र्धारयन्तः प्रतस्थिरे । चमराद्यास्तु शेषेन्द्राः, शस्त्रहस्ताः पदातिवत् ।।२५८९।। मातापितृसुहृद्भातृ-भ्रातृजायादिभिर्वृतः । कुर्वन्तीभिश्च सङ्गीत-मप्सरोभिः सविभ्रमम् ।।२५९० ।। उत्पतद्भिर्निपतद्भिः, कुर्वद्भिर्गजगर्जितम् । आस्फोटयद्भित्रिपदी, रसद्भिर्विविधै रुतैः ।।२५९१।। चातुर्निकायकैर्देवै-र्वामिसेवास्मिताननैः । न्यक्कृतापरकर्तव्यैः, परितः परिवारितः ।।२५९२।। एवं राजपथेनाथ, नेमिनाथः प्रचेलिवान् ।
संयमश्रीविवाहाय, विहाय भवबन्धनम् ।।२५९३।। * oर्ण: १, ०णं ३.४ ।। • कृतदीक्षाभिषेको ४.६-१० ।। ० ०धा० १.२.६-१०.।। १. स्वस्तिक -श्रीवत्सकुम्भ-भद्रासन-नन्द्यावर्त-वर्धमानसम्पुट-मत्स्ययुग्म-दर्पणान्यष्टौ मङ्गलानि, तेभ्यो वर्धमानसम्पुट-मत्स्ययुग्मेति द्वे मङ्गलेऽत्र न स्तः, खङ्गं चाधिकम् ।। * गायन्तीभिस्तथा नृत्यन्तीभिश्चाप्सरसां गणैः २.६-१० ।। तन्तो निपतन्तः कुर्वन्तो गजगर्जितम् । आस्फोटयन्तत्रिपदी रसन्तो वि० २.६-१० ।। + स्वाः स्वाश्चेष्टाः प्रकुर्वाणैर्गीर्वाणैः पुरतः प्रभोः । हर्ष-कोलाहलेनोचैस्तूर्यनादैस्तथोद्धतैः । २.६-१० ।। . नाथः २ ।। २ ०तस्थि० २.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org