________________
श्रीदशवैकालिकसूत्रम् २५१ श्रुत्वा तद्वचनं नेमेः, पितरौ तौ मुमूर्च्छतुः । अरुदन् यदवः सर्वे, वर्षन्तोऽश्रुभिरब्दवत् ।।२५४४ ।। श्रीखण्डद्रवगोलाम-तालवृन्तानिलादिभिः । तावाश्वास्य स्वयं कृष्णः, सर्वानिवर्त्य रोदनात् ।।२५४५।। अथोवाच हरिनेमिं, धिक् ते बन्धो! विवेकिताम् । यदेतान् सर्वथाप्यज्ञान्, पशूनप्यनुकम्पसे ।।२५४६।। माननीयान् पुनर्मातृ-पितृबन्धुसुहृज्जनान् । त्वय्यारूढदृढस्नेहा-नपि तापयसेतमाम् ।।२५४७।। त्रिभिर्विशेषकम् अथाह भगवान्नेमि-र्युक्तं नोक्तं हरे! त्वया । तदेव विदुषा वाच्यं, यदायतिसुखावहम् ।।२५४८।। छेत्तुं बन्धान् समीहेऽहं, सर्वेषामपि देहिनाम् । बन्धं विधित्सवो यूयं, मम तत् स्वजनाः कथम् ? ।।२५४९।। आपातमात्रमधुरं, भवसौख्यं कुपथ्यवत् । परिणामसुखस्तीव्र-भैषज्यमिव संयमः ।।२५५०।। विषयेभ्यः सुखं मूर्खान्, विना को नाम वाञ्छति ? । किं निम्बपादपादाम्र-फलानि स्युः कदाचन ? ॥२५५१।। इत्युक्त्या स्वजना नेमे-विज्ञाय व्रतनिश्चयम् । रुदन्ति स्म तदा स्नेह-ग्रन्थिच्छेदार्तितः किल ।।२५५२।। एवं रुदत्सु सर्वेषु, त्रुटितस्नेहबन्धनः । जगाम धाम श्रीनेमि-मुक्तपाणिग्रहस्पृहः ।।२५५३।। तदा च समयं ज्ञात्वा-जग्मुर्लोकान्तिकामराः । प्रभुं विज्ञापयामासु-र्नाथ! तीर्थं प्रवर्तय ।।२५५४ ।। दातुं सांवत्सरं दानं, श्रीमान्नेमिः प्रचक्रमे । अपूरयन् धनं शक्रा-दिष्टास्ते जृम्भकामराः ।।२५५५।।
श्रीनेमौ चलिते पश्चाद्, राजीमत्यथ मूर्छिता ।
जीवितव्ये गते देह-यष्टिवत् पृथिवीं गता ।।२५५६।। . कर्तुकामा: ९ टि० ।। * न स्व० ६-९. ।। • नाः १ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org