________________
२५० . श्रीतिलकाचार्यविरचितटीकायुतम्
अथोचे सारथिर्नाथ!, त्वद्विवाहमहोत्सवे । वैवाहिकानां लोकानां, दातुं गौरव्यभोजनम् ।।२५३१। उग्रसेननराधीशे-नानाय्यानाय्य लुब्धकैः । संगृहीता इमे जीवा, जलस्थलनभश्चराः ।।२५३२।। वाटकान्तः प्रभोः सर्वे-ऽप्यारटन्तः कृपास्पदम् । वराकाः सन्त्यमी प्राण-भयं येन महाभयम् ।।२५३३।। ततः प्रभुः कृपाम्भोधि-र्बभाषे सारथिं प्रति । यत्रैते जन्तवः सन्ति, रथं प्रापय तत्र मे ।।२५३४ ।। तथैव कृतवान् सूतः, स्वाम्यप्यालोकते स्म तान् । नष्टुकामानिव भयाद्, दिक्षु विक्षिप्तचक्षुषः ।।२५३५ ।। दीनास्याः स्वस्वभाषाभी-रक्ष रक्षेतिवादिनः । तेऽपि श्रीनेमिमैक्षन्त, प्रियङ्करणदर्शनम् ।।२५३६।। करुणारसपीयूष-पारावारेण नेमिना । मोचिताः प्राणिनः सर्वे, वेगादादिश्य सारथिम् ।।२५३७ ।।
गतेषु तेषु जीवेषु, प्रीतेषु प्राणलाभतः । रथं निवर्तयामास, निजावासमभि प्रभुः ।।२५३८ ।। शिवा समुद्रविजयः, कृष्णो रामोऽपरेऽपि च । स्वं स्वं वाहनमुत्सृज्य, श्रीनेमेः पुरतोऽभवन ।।२५३९।। ततः श्रीनेमिमूचाते, पितरौ साश्रुलोचनौ । कस्मादकस्माद् वत्सास्मा-दुत्सवात् त्वं न्यवर्तथाः? ।।२५४०।। इदं नः प्रतिकूलं किं, वत्स! प्रारभ्यताधुना ? । नेमिरूचेऽनुकूलोऽय-मारम्भः सर्वथापि मे ।।२५४१ ।। यथामी पशवो मुक्ता, मया सर्वेऽपि बन्धनात् । मोचयिष्ये तथात्मानं, युष्मांश्च कर्मबन्धनात् ।।२५४२।।
कर्मबन्धलुटत्येष, प्रव्रज्यामन्तरेण न ।
ततस्तामहमादास्ये, कर्मबन्धच्छिदाच्छुरीम् ।।२५४३।। . १. सारथिः १० टि० ।। * नष्टुं ४ ।। . ०त् २.५-१० ।। २. छेदार्थ-छुरीम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org