SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २४८ श्रीतिलकाचार्यविरचितटीकायुतम् उत्तम्भितभुजैर्भट्टैः, पठ्यमानगुणोत्करैः । उत्तानीकृतहस्ताग्रैः गर्जद्भिरिव कुञ्जरैः ।। २५०८ ।। उत्तार्यमाणलवणो, जामिभिः पक्षयोर्द्वयोः । गीयमानः कुलस्त्रीभिः, कलैः धवलमङ्गलैः ।। २५०९ ।। अट्टाट्टालकमालाद्या-रूढैः पौरीजनैः प्रभुः । नयनाञ्जलिभिः पीय-मानलावण्यसागरः ।। २५१०।। सगोत्रैर्यदुभिः सर्वैर्यदुस्त्रीभिश्च सङ्गतः । उग्रसेनगृहासन्नो, जगाम जगतां पतिः ।। २५११ ।। नवभिः कुलकम् अमन्दानन्दतुमुला-न्नेम्यागमनजन्मनः । अभूद् राजीमती साक्षाद्, मयूरीव घनध्वनेः ।। २५१२ ।। भावविद्भिः सखीभिः, सा प्रोक्ता नेमिदिदृक्षया । अन्तर्विमानं देवीव, गवाक्षं निषसाद सा ।। २५१३ ।। धम्मिलं बिभ्रती राजी - मती मेघमिवागतम् । मुखलावण्यपाथोधे- रादातुममृतं किल । । २५१४ ।। अधिज्यभालकोदण्डे, सीमन्तव्यपदेशतः । सिद्धानपि क्षोभयितुं, समधादूर्ध्वगं शरम् ।।२५१५।। भालपालनकस्यान्तः, कामबालस्य खेलितुम् । सीमन्ताधस्थमुक्तौघो, विलुलन्निव कन्दुकः ।।२५१६।। जेतुं स्मरेण श्रीनेमिं, काश्मीरतिलकच्छलात् । यदैलीकास्त्रशालायां, फलकं सज्जितं नवम् ।।२५१७।। नेमिं जेतुं प्रवृत्तस्य, स्मरराजस्य राजते । नाशावंशोध्वगं यद्भू-युगं मेघातपत्रवत् ।।२५१८।। * बन्दिवृन्दैः पठद्भिश्च समुत्तम्भितपाणिभिः २.६-१० ।। गम्भिरमधुरैः ध्वानै र्गर्जद्भिरिव वारिदैः २ ।। १. प्रासादस्योपरिगृह० १० टि० ।। २. इष्टकादिगृह० १० टि० ।। सोत्का ४ -१० ।। भ्रूयुगज्यललाटाख० २ ।। ३. सेंथो इति भाषा० ।। नव्यं भालास्त्रशालायां पालकं किल सज्जितम् २.६-१० अयं मूलपाठ १० टिप्पण्यामपि ।। ४. यस्याः १० टि० ।। ५. ललाट० ।। ६. बाणग्रम् १० टि० ।। श्रीनेमिविजयान्तासौ, प्रतिज्ञा मधुसारथेः । श्यामे इव पताके यत्, नाशावंशोध्वगे भ्रुवौ ( बभौ १० ) ।।२.६-१०. अयं मूलपाठ १० टिप्पण्यामपि ।। ०घान्त० १ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy