________________
२४६ - श्रीतिलकाचार्यविरचितटीकायुतम् ..
कन्यावश्यं प्रदेयैव, कस्मैचित् तदिमां यदि । नेमिः परिणयेत् तत्स्यात्, सुवर्णं च सुगन्धि च ।।२४८३।। इत्युक्त्वा भोजराजेन्दुः, सञ्चक्रे चक्रवर्तिनम् । वस्त्राभरणरत्नाद्यै-रथकुञ्जरवाजिभिः ।।२४८४ ।।
अथ प्रमुदितो विष्णुः, समुद्रविजयस्य तत् । सर्वं विज्ञप्तवानूचे, समुद्रविजयोऽप्यदः ।।२४८५।। अतुच्छं वत्स! वात्सल्यं, पितृभ्रातृजनेषु ते । यञ्चक्रे नः प्रमोदाय, श्रीनेमिर्भोगसम्मुखम् ।।२४८६।। पृष्टः क्रोष्टुकिराहूय, भूभुजा श्रीभुजापि च । । दिनं राजीमतीश्रीम-नेम्योः कर्तुं विवाहनम् ।।२४८७ ।। ततः क्रोष्टुकिराचष्ट, न प्रावृषि शुभो विधिः । . अन्योऽपि युज्यते कर्तुं, विवाहस्तु विशेषतः ।।२४८८।। ऊचे समुद्रः कृष्णश्च, कालक्षेपोऽत्र नार्हति । " माभूद् विवाहप्रत्यूहो, लग्नमासन्नमादिश ।।२४८९।। विचिन्त्य क्रोष्टुकिः स्माह, यद्येवं यदुपुङ्गवौ! । कर्तव्यं श्रावणश्वेत-षष्ठ्यामेतद् विवाहनम् ।।२४९०।। सत्कृत्य क्रोष्टुकिस्ताभ्यां, विसृज्य च दिनं च तत् । ज्ञापितं भोजराजाय, तौ द्वौ संवहतस्ततः ।।२४९१।। द्वारवत्यामुपेन्द्रोऽपि, कारयामास सर्वतः । हट्टशोभाः पताकाश्च, मञ्चांस्तोरणमालिकाः ।।२४९२।।
अथ पाणिग्रहासन्ने, दिवसे श्रीशिवादयः । मातरश्च स्वसारश्च, भ्रातृजायाश्च भूरिशः ।।२४९३।। अन्या अपि तदानन्दात्, कुलवृद्धा यदुत्रियः । स्वरितस्वरमाधुर्य-गीतमङ्गलगीतयः ।।२४९४ ।। प्रोङ्मुखं स्थापयामासुः, श्रीनेमिं कनकासने ।
शीरशार्ङ्गधरौ प्रीत्या, स्नपयामासतुः स्वयम् ।।२४९५ ।। त्रिभिर्विशेषकम् * पृष्ट० १.३.४.१०; अथ २.६-९ ।। १. सज्जीभूतौ ।। २. पूर्वसम्मुखम् १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org